जन्मान्तरशताभ्यस्ते ऽप्य् आगते सौहृदं परम् । अनात्मभूते दृश्ये ऽस्मिन् नायम् आत्मा प्रसीदति
अत्यन्तगुप्ते ऽप्य् अमृते भोजनस्थे ननु स्मृतिः । राजते रजनी मेघच्छन्ने ऽपीव निशाकरे
नित्ये सत्ये तथाभूत आत्मात्मन्य् एव हृष्यति । नानाताचिरगुप्ते ऽपि लुप्ते ऽपि कलनामलैः
तावद् आत्मात्मना यत्नात् प्रक्षाल्येदं मलं मलैः । दुर्भावनमलश् शास्त्रैश् शोध्यो यावद् भवेत् सितः
शान्तदुर्वासने ज्ञानं पुण्यं लगति चेतसि । निष्कलङ्के सिते वस्त्रे यथा कुङ्कुमरञ्जनम्
सर्वं सकलनिर्माणं कालेषु त्रिष्व् अपि स्थितम् । नित्यम् एकं समं शुद्धं ब्रह्मैवेति सुनिश्चयः
सर्वथा सर्वदा सार्वं सर्वं घटपटादिमत् । जगज्जनितविस्तारं ब्रह्मेदम् इति वेद्म्य् अहम्
न मे दुःखं न कर्माणि न ममेहा न वाञ्छितम् । समस् स्वस्थो विशोको ऽस्मि ब्रह्माहम् इति सत्यता
अहं रक्तम् अहं मांसम् अहम् अस्थीन्य् अहं वपुः । चिद् अहं चेतनं चाहं ब्रह्माहम् इति सत्यता
अहं तृणम् अहं वल्ली गुल्मो ऽहं काननान्य् अहम् । शैलसागरसार्थो ऽहं ब्रह्मैवेत्थं किल स्थितम्
आदानदानसङ्कोचपूर्विका भूतशक्तयः । सर्वम् एव चिदात्मास्मि ब्रह्म व्याततरूपधृत्
लतागुल्माङ्कुरादीनाम् अहम् उद्भावनैषणाः । चिदात्मान्तर्गतं शान्तं परं ब्रह्म रसात्मकम्
यस्मिन् सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः । सो ऽयं चिद् अहम् एकात्मा परं ब्रह्मेति निश्चयः
चिद् आत्मा ब्रह्म सत् सत्यम् ऋतं ज्ञ इति नामभिः । प्रोच्यते सर्वगं तत्त्वं चिन्मात्रं चेत्यवर्जितम्
आभासमात्रम् अमलं सर्वभूतावबोधकम् । सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्य् अनुभूयते
मनोबुद्धीन्द्रियव्रातसमस्तकलनाचितम् । भेदं त्यक्त्वा स्वम् आभासं चिद्ब्रह्माहम् अनामयम्
शब्दादीनाम् अशेषाणां कारणानां जगत्स्थितेः । तत्त्वावभासकं स्वच्छं चिद्ब्रह्मास्मि न मे क्षयः
अनारतगलत्स्वच्छचिद्धारावहनात्मकम् । आलोकस् समनोमौनं चिद्ब्रह्मास्म्य् अमृतं परम्
अनारतगलद्रूपं नित्यं चानुभवामृतम् । अहर्निशं कचत्कान्ति चिद्ब्रह्माहम् अलेपकः
सुषुप्तसदृशं शान्तम् आलोकविमलात्मकम् । सम्भोगान्तसमाभासं चिद्ब्रह्मास्मि विवासनः
खण्डादिस्वादुसंवित्तिर् ईषद् यत्रानुतिष्ठति । चित्तादिष्व् अप्य् अबुद्धेषु तच् चिद्ब्रह्माहम् अच्युतः
कान्तासंसक्तचित्तस्य चन्द्रे समुदिते सति । चन्द्रप्रत्ययसत्तात्म चिद्ब्रह्माहम् अनामयम्
भूमिष्ठनरदृष्टीनां लग्नानां खे निशाकरे । या खस्था तन्तुवच् छक्तिस् तच् चिद्ब्रह्मास्मि निर्मलम्
सुखदुःखादिकलनाविकलं निर्मनस् तथा । सत्यानुभवरूपात्म चिद्ब्रह्मात्मास्मि शाश्वतम्
असंस्तुताध्वगालोके मनस्य् अन्यत्र संस्थिते । या प्रतीतिर् अनागस्का तच् चिद्ब्रह्मास्मि सर्वगः
भूवार्यनिलबीजानां सम्बन्धे ऽङ्कुरकर्मसु । शक्तिर् उद्गमनी यान्तस् तच् चिद्ब्रह्माहम् आततम्
खर्जूरनिम्बबिम्बानां स्वयम् आत्मनि तिष्ठताम् । यास्वादसत्ता लीनान्तस् तद् ब्रह्म चिद् अहं समम्
खेदानन्दविमुक्तान्तस् संविन् निर्मननोदया । लाभालाभविधौ तुल्या चिद्ब्रह्मास्मि निरामयम्
यावद् भूमेर् ध्रुवस् तावद् दृष्टिसूत्रं यद् आततम् । तन्मध्यसदृशं शान्तं निर्मलं चिद् अहं ततम्
जाग्रत्य् अपि सुषुप्ते ऽपि स्वप्ने ऽपि सततोदितम् । तुर्यरूपम् अनाद्यन्तं चिद्ब्रह्माहम् अनामयः