ब्रह्मैवाज्ञातम् अज्ञत्वम् अभ्यागतम् इव स्थितम् । तथा हि दृश्यते स्वप्नचेतसात्मात्मना मृतः
अभावितं ब्रह्मतया ब्रह्माज्ञानमयं भवेत् । अभावितं हेमतया यथा हेमैव मृद् भवेत्
ज्ञातं ब्रह्मतया ब्रह्म ब्रह्मैव भवति क्षणात् । ज्ञातं हेमतया हेम हेमैव भवति क्षणात्
ब्रह्मात्मा सर्वशक्तिर् हि यद् यथा भावयत्य् अलम् । निर्हेतुकं स्वयं शक्त्या तत् तथाशु प्रपश्यति
अकर्मकर्तृकरणम् अकारणम् अनामयम् । स्वयंप्रभु महात्मैतद् ब्रह्म ब्रह्मविदो विदुः
अपरिज्ञातम् अज्ञानम् अज्ञानम् इति कथ्यते । परिज्ञातं भवेज् ज्ञानम् अज्ञानपरिनाशनम्
बन्धुर् एवापरिज्ञातो ह्य् अबन्धुर् इति कथ्यते । परिज्ञातो भवेद् बन्धुर् अबन्धुभ्रमनाशनात्
इदं त्व् अयुक्तम् इत्य् अन्तर् ज्ञाते सोदेति भावना । तस्माद् अयुक्ताद् वैरस्याद् यया किल विरज्यते
द्वैतं त्व् असत्यम् इत्य् अन्तर् ज्ञाते सोदेति भावना । तस्माद् द्वैतात् सुवैरस्याद् यया किल विरज्यते
अयं नाहम् इति ज्ञाते स्फुटं सोदेति भावना । मिथ्याहङ्कारतादात्म्याद् यया नूनं विरज्यते
ब्रह्मैवाहम् इति ज्ञाते सत्यं सोदेति भावना । तस्मिन् सत्ये निजे रूपे ययान्तः परिलीयते
सर्वम् एवेह ब्रह्मेति ज्ञाते ब्रह्मैव शिष्यते । पीते ऽमृते ऽमृतमयः को नाम न भवेत् किल
चेतो यद् एवाहरति तद् एवाशु भवत्य् अलम् । ब्रह्मैकाभ्यवहारेण ब्रह्मैव भवति क्षणात्
यन् मिथ्या तन् मुधैवेति ज्ञाते सोदेति भावना । मिथ्याप्रतीतिर् अखिला यया नूनं प्रमार्ज्यते
सर्वं सद् एवेति तते ज्ञाते सोदेति भावना । तस्मिन् सत्ये तते स्फारे ययान्तः प्राप्यते स्थितिः
यथाभूते यथातत्त्वे यथारूपे यथास्थिते । भावना स्थितिम् आयाति नान्यत्राङ्ग कदाचन
समाशतोपयाते ऽपि विस्मृते ऽपि निजे जने । अबन्धुवत् स्थिते ऽप्य् अन्तस् स्निह्यत्य् एव बलान् मनः
जन्मान्तरशताभ्यस्ते स्थिते ऽपि हि भवभ्रमे । आत्मात्मन्य् एव विमले निर्वृतिं विन्दते परां
नित्यम् अन्तिकसंस्थे ऽपि परे बन्धाव् इवाश्रिते । बन्धुभावं गते ऽप्य् अन्तर् मनो याति न निर्वृतिम्
अत्यन्तगुप्ते ऽपि विषे भोजनस्थे ननु स्मृतिः । निवृत्तापि प्रवृत्तापि स्फुरत्य् एव चकोरवत्
जन्मान्तरशताभ्यस्ते ऽप्य् आगते सौहृदं परम् । अनात्मभूते दृश्ये ऽस्मिन् नायम् आत्मा प्रसीदति
अत्यन्तगुप्ते ऽप्य् अमृते भोजनस्थे ननु स्मृतिः । राजते रजनी मेघच्छन्ने ऽपीव निशाकरे
नित्ये सत्ये तथाभूत आत्मात्मन्य् एव हृष्यति । नानाताचिरगुप्ते ऽपि लुप्ते ऽपि कलनामलैः
तावद् आत्मात्मना यत्नात् प्रक्षाल्येदं मलं मलैः । दुर्भावनमलश् शास्त्रैश् शोध्यो यावद् भवेत् सितः
शान्तदुर्वासने ज्ञानं पुण्यं लगति चेतसि । निष्कलङ्के सिते वस्त्रे यथा कुङ्कुमरञ्जनम्
सर्वं सकलनिर्माणं कालेषु त्रिष्व् अपि स्थितम् । नित्यम् एकं समं शुद्धं ब्रह्मैवेति सुनिश्चयः
सर्वथा सर्वदा सार्वं सर्वं घटपटादिमत् । जगज्जनितविस्तारं ब्रह्मेदम् इति वेद्म्य् अहम्
न मे दुःखं न कर्माणि न ममेहा न वाञ्छितम् । समस् स्वस्थो विशोको ऽस्मि ब्रह्माहम् इति सत्यता
अहं रक्तम् अहं मांसम् अहम् अस्थीन्य् अहं वपुः । चिद् अहं चेतनं चाहं ब्रह्माहम् इति सत्यता
अहं तृणम् अहं वल्ली गुल्मो ऽहं काननान्य् अहम् । शैलसागरसार्थो ऽहं ब्रह्मैवेत्थं किल स्थितम्