राजपुत्र महाबाहो विदिताखिलवेद्य हे । स्फुटं शृणु यथापृष्टम् अयम् एतेषु निश्चयः
यद् इदं किञ्चिद् आभोगि जगज्जालं प्रदृश्यते । तत् सर्वम् अमलं ब्रह्म बृंहयेत्थं व्यवस्थितम्
ब्रह्म दिग् ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म मच्छत्रुर् ब्रह्म मन्मित्रबान्धवाः
ब्रह्म खानिलतेजांसि ब्रह्म भूमिर् जलादि वा । ब्रह्म कालत्रयं तच् च ब्रह्मण्य् एव व्यवस्थितम्
तरङ्गमालयाम्भोधिर् यथात्मनि विवर्धते । तथा पदार्थलक्ष्म्येत्थम् इदं ब्रह्म विवर्धते
गृह्यते ब्रह्मणा ब्रह्म भुज्यते ब्रह्म ब्रह्मणा । ब्रह्म ब्रह्मणि बृंहाभिर् ब्रह्मशक्त्यैव बृंहति
ब्रह्म मच्छत्रुरूपं चेद् ब्रह्म मे प्रियकृद् यदि । तद् ब्रह्म ब्रह्मणि श्लिष्टं किम् अन्यत् कस्य किं कृतं
रागादीनाम् अवस्तूनां कल्पितानां खवृक्षवत् । असङ्कल्पननष्टानां कः प्रसङ्गो ऽत्र वर्धने
ब्रह्मण्य् एव हि सर्वस्मिंश् चलनस्पन्दनादिकम् । स्फुरति ब्रह्म सकलं सुखितादुःखिते कुतः
ब्रह्म ब्रह्मणि संवेत्तृ ब्रह्म ब्रह्मणि संस्थितम् । स्फुरति ब्रह्मणि ब्रह्म नायम् अस्तीतरात्मकः
घटो ब्रह्म पटो ब्रह्म ब्रह्माहम् इदम् आततम् । अतो रागविरागाणां मुधैव कलनैव का
मरणब्रह्मणि स्वैरं देहब्रह्मणि सङ्गते । दुःखिता नाम केव स्याद् रज्जुसर्पभ्रमोपमा
सम्भोगादौ सुखे ब्रह्मण्य् आस्थिते देहब्रह्मणि । सम्पन्नम् एतन् म इति मुधा स्यात् कलना कुतः
वीच्यम्भसोस् स्पन्दवतोर् न स्तस् त्वन्मन्मती यथा । त्वत्तामत्ते तथा न स्तो ब्रह्मणि स्पन्दरूपिणि
यथावर्ते मृते तोये न किञ्चिन् म्रियते क्वचित् । मृते ब्रह्मत्वम् आयाते देहब्रह्मणि वै तथा
यथा चलाचले तोये त्वत्तामत्ते न तिष्ठतः । तथा जडाजडे रूपे न स्थिते परमात्मनि
कटकत्वं यथा हेम्नो यथावर्तो जलस्य च । तदतद्भावरूपेयं तथा प्रकृतिर् आत्मनः
इदं हि भूतं जीवात्म जडरूपम् इदं भवेत् । इत्य् अज्ञातात्मनो मोहो न तु ज्ञातात्मनः क्वचित्
अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् । अन्धं भुवनम् अन्धस्य प्रकाशं तु सचक्षुषः
जगद् एकात्मकं ज्ञस्य जडस्य द्वैतदुःखदम् । शिशोर् एव स्फुरद्यक्षा निशा पुंसस् तु केवला
अस्मिन् ब्रह्मघने नित्यम् एकस्मिन् सर्वतस् स्थिते । न किञ्चिन् म्रियते राम न च किञ्चन जीवति
यथोल्लासविलासेषु न नश्यति न जायते । तरङ्गादि महाम्भोधौ भूतवृन्दं तथात्मनि
इदं नास्तीदम् अस्तीति भ्रान्तिनाम्नात्मनात्मनि । शक्तिर् निर्हेतुकैवान्तस् स्फुरति स्फटिकांशुवत्
जगच्छक्त्यात्मनात्मैव ब्रह्म स्वात्मनि संस्थितम् । तरङ्गकणजालेन पयसीव पयोघनम्
शरीरनाशेन कथं ब्रह्मणो मृतधीर् भवेत् । ब्रह्मणो व्यतिरिक्तं हि न शरीरादि विद्यते । पयसो व्यतिरेकेण तरङ्गादि यथार्णवे
यः कणो या च कणिका या वीची यस् तरङ्गकः । यः फेनो या च लहरी तद् यथा वारि वारिणि
यो देहो या च कलना यद् दृश्यं यौ क्षयाव्ययौ । येहा या रचना यो ऽर्थस् तत् तथा ब्रह्म ब्रह्मणि
संस्थानरचना चित्रा ब्रह्मणः कनकाद् इव । नान्यरूपा विमूढानां मुधैव द्वित्वभावनम्
मनो बुद्धिर् अहङ्कारस् तन्मात्राणीन्द्रियाणि च । ब्रह्मैव सर्वं नान्यात्म सुखदुःखादि विद्यते
अयं सो ऽहम् अयं च त्वम् इत्याद्यर्थोत्थया गिरा । शब्दः प्रतिश्रवेणाद्राव् इवात्मात्मनि जृम्भते