कालचक्रे वहत्य् अस्मिंस् ततो विगलिते क्रमे । प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे
द्वन्द्वानि सम्प्रवृत्तानि विषयार्थं महीभुजाम् । दण्ड्यतां सम्प्रयातानि भूतानि भुवि भूरिशः
ततो युद्धं विना भूपा महीं पालयितुं क्रमात् । असमर्थास् तद् आयाताः प्रजाभिस् सह दीनताम्
तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च । ततो ऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः
अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता । तदनु प्रसृता लोके राजविद्येत्य् उदाहृता
राजविद्या राजगुह्यम् अध्यात्मग्रन्थम् उत्तमम् । ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः
अथ राजस्व् अतीतेषु बहुष्व् अमलकीर्तिषु । अस्माद् दशरथाद् राम जातो ऽद्य त्वम् इहावनौ
तव चातिप्रसन्ने ऽस्मिञ् जातं मनसि पावनम् । निर्निमित्तम् इदं चारु वैराग्यम् अरिमर्दन
सर्वस्यैव हि भव्यस्य साधोर् अपि विवेकिनः । निमित्तपूर्वं वैराग्यं जायते राम राजसम्
इदं त्व् अपूर्वम् उत्पन्नं चमत्कारकरं सताम् । तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम्
बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते । सतां तूत्तमवैराग्यं विवेकाद् एव जायते
ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि । वैराग्यं जायते येषां त एवामलमानसाः
स्वविवेकचमत्कारपरामर्शविरक्तया । राजते हि धिया जन्तुर् युवेव वनमालया
परामृश्य विवेकेन संसाररचनाम् इमाम् । विरागं ये ऽधिगच्छन्ति त एव पुरुषोत्तमाः
स्वविवेकवशाद् एव विचार्येदं पुनः पुनः । इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात्
श्मशानम् आपदं दैन्यं दृष्ट्वा को न विरज्यते । तद् वैराग्यं परं श्रेयस् स्वतो यद् अभिजायते
अकृत्रिमविरागस् त्वं महत्ताम् अलम् आगतः । योग्यो ऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम्
प्रसादात् परमेशस्य नाथस्य परमात्मनः । त्वादृशस्य शुभा बुद्धिर् विवेकम् अनुधावति
क्रियाक्रमेण महता तपसा नियमेन च । दानेन तीर्थयात्राभिश् चिरकालविवेकतः
दुष्कृते क्षयम् आपन्ने परमार्थविचारणे । काकतालीययोगेन बुद्धिर् जन्तोः प्रवर्तते
क्रियापरास् तावद् अलं चक्रावृत्तिभिर् आदृताः । भ्रमन्तीह जना यावन् न पश्यन्ति परं पदम्
यथाभूतम् इमं दृष्ट्वा संसारं तन्मयीं धियम् । परित्यज्य परं यान्ति निरालाना गजा इव
विषमेयम् अनन्तेहा राम संसारसंसृतिः । देहमुक्ता महातन्तुर् विना ज्ञानं न नश्यति
ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् । महाधियस् समुत्तीर्णा नेतरेण रघूद्वह
ताम् इमां ज्ञानयुक्तिं त्वं संसाराम्भोधितारिणीम् । शृणुष्वावहितो बुद्ध्या नित्यावहितयानया
यस्माद् अनन्तसंरम्भा जगतो दुःखरीतयः । चिरायान्तर् दहन्त्य् एता विना युक्तिम् अनिन्दित
शीतवातातपादीनि द्वन्द्वदुःखानि राघव । ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु
आपतन्ति प्रतिपदं यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणम् अग्निशिखा इव
प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनम् आधयः । न दहन्ति वनं वर्षदब्दम् अग्निशिखा इव
आधिव्याधिपरावर्ते संसारमरुमारुते । क्षुभिते ऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत्