एतावद् एवाविद्या यन् नेदं ब्रह्मेति निश्चयः । एतद् एव क्षयो यस् स्याद् इदं ब्रह्मेति निश्चयः
घटपटशकटावभासजालं न विभुर् इतीत्य् उदितेह सा त्व् अविद्या । घटपटशकटावभासजालं विभुर् इति चेद् गलितैव सा त्व् अविद्या
पुनः पुनर् इदं राम प्रबोधार्थं मयोच्यते । अभ्यासेन विना साधो नाभ्युदेत्य् आत्मभावनम्
अज्ञानम् एतद् बलवद् अविद्येतरनामकम् । जन्मान्तरशतप्रौढं नूनं स्थितिम् उपागतम्
सबाह्याभ्यन्तरं सर्वैर् इन्द्रियैर् अनुभूयते । भावाभावेषु देहस्य तेनातिघनतां गतम्
आत्मज्ञानं तु सर्वेषाम् इन्द्रियाणाम् अगोचरम् । सत्तां केवलम् आयाति मनष्षष्ठेन्द्रियक्षये
प्रोल्लङ्घ्येन्द्रियजाश् शक्तीर् यत् स्थितं तत् कथं किल । याति प्रत्यक्षतां जन्तोः प्रत्यक्षातीतवृत्तिमत्
नित्यम् अज्ञानम् एवातस् स्वभ्यस्तं सर्वदेहिनाम् । न कदाचन विज्ञानम् इह वामुत्र वानघ
तस्माद् अविद्याभागेन प्रधानेनेतरं दहेत् । तावद् यावन् मिथोघर्षात् स्वयं शाम्येच् छिवं भवेत्
न ह्य् अभ्यासं विना किञ्चित् फलदं भवति क्वचित् । यद् यद् आसाद्यते यत्र तद् अभ्यासतरोः फलम्
अविद्यां सुचिराभ्यस्तां प्ररूढाम् अपि यत्नतः । आत्मज्ञानदृढाभ्यासाद् अनुद्वेगाच् छमं नयेत्
त्वम् अविद्यालताम् एतां प्ररूढां हृदयद्रुमे । ज्ञानाभ्यासविलासासिपातेन च्छिन्द्धि सिद्धये
यथा विहरति ज्ञातज्ञेयो जनकभूपतिः । आत्मज्ञानघनाभ्यासस् तथा विहर राघव
निश्चयो यो मरुत्तस्य कार्याकार्यविचारणे । जाग्रतस् तिष्ठतो वापि तज् ज्ञानं तेन सत्यता
निश्चयेन हरिर् येन विविधाचारकारणात् । योनिष्व् अवतरत्य् उर्व्यां तत् तज्ज्ञत्वम् उदाहृतम्
निश्चयो यस् त्रिनेत्रस्य कान्तया सह तिष्ठतः । ब्रह्मणो वाप्य् अरागस्य स ते भवतु राघव
यो निश्चयस् सुरगुरोर् वाक्पतेर् भार्गवस्य च । दिवाकरस्य शशिनः पवनस्यानलस्य च
नारदस्य पुलस्त्यस्य मम वाङ्गिरसस् तथा । प्रचेतसो भृगोश् चैव क्रतोर् अत्रेश् शुकस्य च
अन्येषां देवविप्रेन्द्रराजर्षीणां च राघव । यो निश्चयो ऽन्तर्मुक्तानां जीवतां ते भवत्व् असौ
येनैते भगवन् वीरा निश्चयेन महाधियः । विशोकास् संस्थितास् तं मे ब्रह्मन् प्रब्रूहि तत्त्वतः
राजपुत्र महाबाहो विदिताखिलवेद्य हे । स्फुटं शृणु यथापृष्टम् अयम् एतेषु निश्चयः
यद् इदं किञ्चिद् आभोगि जगज्जालं प्रदृश्यते । तत् सर्वम् अमलं ब्रह्म बृंहयेत्थं व्यवस्थितम्
ब्रह्म दिग् ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म मच्छत्रुर् ब्रह्म मन्मित्रबान्धवाः
ब्रह्म खानिलतेजांसि ब्रह्म भूमिर् जलादि वा । ब्रह्म कालत्रयं तच् च ब्रह्मण्य् एव व्यवस्थितम्
तरङ्गमालयाम्भोधिर् यथात्मनि विवर्धते । तथा पदार्थलक्ष्म्येत्थम् इदं ब्रह्म विवर्धते
गृह्यते ब्रह्मणा ब्रह्म भुज्यते ब्रह्म ब्रह्मणा । ब्रह्म ब्रह्मणि बृंहाभिर् ब्रह्मशक्त्यैव बृंहति
ब्रह्म मच्छत्रुरूपं चेद् ब्रह्म मे प्रियकृद् यदि । तद् ब्रह्म ब्रह्मणि श्लिष्टं किम् अन्यत् कस्य किं कृतं
रागादीनाम् अवस्तूनां कल्पितानां खवृक्षवत् । असङ्कल्पननष्टानां कः प्रसङ्गो ऽत्र वर्धने
ब्रह्मण्य् एव हि सर्वस्मिंश् चलनस्पन्दनादिकम् । स्फुरति ब्रह्म सकलं सुखितादुःखिते कुतः
ब्रह्म ब्रह्मणि संवेत्तृ ब्रह्म ब्रह्मणि संस्थितम् । स्फुरति ब्रह्मणि ब्रह्म नायम् अस्तीतरात्मकः