बीजेषूल्लासरूपेण जाड्येन जडरूपिषु । द्रवेषु द्रवभावेन काठिन्येनेतरेषु च
भस्मन्य् अथादित्यरुचौ पांसुष्व् अप्य् अणुरूपिणी । असितेषु तलस्थित्या शितधारतयासिषु
आत्मशक्तिः पदार्थेषु घटावटपटादिषु । सर्वत्र सत्तासामान्यं रूपम् आश्रित्य तिष्ठति
इतीयम् अखिलां दृश्यदशाम् आदाय संस्थिता । यथा घनपटा प्रावृड् अम्बरालम्बिनी तथा
स्वरूपम् अस्याश् चैवैतत् कथितं प्रविचारितम् । असर्वं सर्वतो व्यापि सद् इवासन्मयात्मकम्
आत्मदृष्टिर् अदृष्टैषा संसृतिभ्रमदायिनी । दृष्टा सती समग्राणां दुःखानां क्षयकारिणी
अस्यास् त्व् अदर्शनं यत् तद् अविद्येत्य् उच्यते बुधैः । अविद्या हि जगद्धेतुस् ततस् सर्वं प्रवर्तते
अविद्या रूपरहिता यावद् एवावलोक्यते । तावद् एव गलत्य् आशु तुहिनाणुर् यथातपे
यथा नरो गलन्निद्रो यावत् कलनया मनाक् । विमृशत्य् आशयं तावन् निद्रा तस्य विलीयते
तथा कीदृग् अवस्त्व् एतद् इति यावद् विकल्प्यते । अविद्या क्षीयते तावद् आलोकेनान्धता यथा
दीपहस्तो यदाभ्येति तमोरूपदिदृक्षया । तदा गलति तत् सर्वं तमस् तापे घृतं यथा
न तु संलक्ष्यते दीपैस् तमसो रूपनिश्चयः । उदेति केवलं ध्वान्तध्वंसो विमलमूर्तिमान्
एवम् आलोक्यमानैषा क्वापि याति पलायते । असद्रूपा ह्य् अवस्तुत्वं दृश्यते ऽस्या विचारणात्
आलोक आगते यादृग् यद् यत् तद् दृश्यते तथा । अवस्तुत्वे त्व् अविद्यायास् त्व् अवस्तुत्वं प्रतीयते
यावन् नालोक्यते तावन् न किञ्चिद् अपि दृश्यते । आलोक्यते यथा यद् यत् तत् तथा प्रतिपद्यते
रक्तमांसास्थियन्त्रे ऽस्मिन् कस् स्याम् अहम् इति स्वयम् । यावद् विचार्यते तावत् सर्वम् आशु प्रलीयते
आद्यन्तयोर् असद्रूपे नूनं परिहृते हृदः । सर्वस्मिन्न् एव यश् शेषस् तम् अविद्याक्षयं विदुः
तन् नकिञ्चिच् च किञ्चिच् च यत् सत् तद् ब्रह्म शाश्वतम् । तद् वस्तु तद् उपादेयं तद् अविद्यानिवर्तनम्
स्वरूपं नाम्न एवास्या ज्ञायते निस्स्वभावकम् । न हि जिह्वागतस्येक्षोस् स्वादो ऽन्यस्मात् प्रतीयते
नाविद्या क्वचिद् अप्य् अस्ति ब्रह्मैवेदम् अखण्डितम् । सदसत्कलनास्फारम् अशेषं येन मण्डितम्
एतावद् एवाविद्या यन् नेदं ब्रह्मेति निश्चयः । एतद् एव क्षयो यस् स्याद् इदं ब्रह्मेति निश्चयः
घटपटशकटावभासजालं न विभुर् इतीत्य् उदितेह सा त्व् अविद्या । घटपटशकटावभासजालं विभुर् इति चेद् गलितैव सा त्व् अविद्या
पुनः पुनर् इदं राम प्रबोधार्थं मयोच्यते । अभ्यासेन विना साधो नाभ्युदेत्य् आत्मभावनम्
अज्ञानम् एतद् बलवद् अविद्येतरनामकम् । जन्मान्तरशतप्रौढं नूनं स्थितिम् उपागतम्
सबाह्याभ्यन्तरं सर्वैर् इन्द्रियैर् अनुभूयते । भावाभावेषु देहस्य तेनातिघनतां गतम्
आत्मज्ञानं तु सर्वेषाम् इन्द्रियाणाम् अगोचरम् । सत्तां केवलम् आयाति मनष्षष्ठेन्द्रियक्षये
प्रोल्लङ्घ्येन्द्रियजाश् शक्तीर् यत् स्थितं तत् कथं किल । याति प्रत्यक्षतां जन्तोः प्रत्यक्षातीतवृत्तिमत्
नित्यम् अज्ञानम् एवातस् स्वभ्यस्तं सर्वदेहिनाम् । न कदाचन विज्ञानम् इह वामुत्र वानघ
तस्माद् अविद्याभागेन प्रधानेनेतरं दहेत् । तावद् यावन् मिथोघर्षात् स्वयं शाम्येच् छिवं भवेत्
न ह्य् अभ्यासं विना किञ्चित् फलदं भवति क्वचित् । यद् यद् आसाद्यते यत्र तद् अभ्यासतरोः फलम्