अपरिज्ञात आत्मैव भ्रमतां समुपागतः । ज्ञात आत्मत्वम् आयाति सीमान्तं सर्वसंविदाम्
अविद्येत्य् उच्यते लोके चिच् चेत्यमलमालिता । चेत्यातीताच्छताम् एति सर्वोपाधिविवर्जिता
चित्तमात्रं हि पुरुषस् तस्मिन् नष्टे न नश्यति । स्थिते तिष्ठति नात्मायं घटे सति यथाम्बरम्
गच्छन् पश्यति गच्छन्तं स्थितं तिष्ठञ् शिशुर् यथा । भानुम् एवम् इदं चेतः पश्यत्य् आत्मानम् आकुलम्
कोशकारवद् आत्मानं वासनाननतन्तुभिः । वेष्टयंश् चैव चेतो ऽन्तर् बालत्वान् नावबुध्यते
मौर्ख्यम् अत्यन्तघनताम् आगतं सदवस्थितम् । स्थावरादितनुं प्राप्तं कीदृशं भवति प्रभो
अमनस्त्वम् असम्प्राप्तं मनस्त्वाद् अपि विच्युतम् । तटस्थं रूपम् आश्रित्य स्थितैषा स्थावरेषु चित्
सुप्तपुर्यष्टका यत्र संस्थिता दुःखदायिनी । मूकान्धजडवत् तत्र सत्तामात्रेण तिष्ठति
सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् । तत्रादूरस्थितां मुक्तिं मन्ये वेद्यविदां वर
बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् । सत्तासामान्यबोधो यस् स मोक्षश् चेद् अनन्तकः
परिज्ञाय परित्यागो वासनानां य उत्तमः । सत्तासामान्यरूपत्वं तत् कैवल्यपदं विदुः
विचार्यार्यैस् सहालोक्य शास्त्राण्य् अध्यात्मभावनात् । सत्तासामान्यनिष्ठत्वं यत् तद् ब्रह्म परं विदुः
अन्तस् सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः । वासना तत् सुषुप्तत्वं विद्धि जन्मप्रदं पुनः
अन्तस् संलीनमननं परितस् सुप्तवासनम् । सुषुप्तं जडधर्मापि जन्मदुःखशतप्रदम्
स्थावरादय एते हि समस्ता जडधर्मिणः । सुषुप्तपदम् आरूढा जन्मयोग्याः पुनः पुनः
यथा बीजेषु पुष्पाणि मृदो राशौ यथा घटाः । तथान्तस् संस्थितास् साधो स्थावरेषु स्ववासनाः
यत्रास्ति वासनाबीजं तत् सुषुप्तं न सिद्धये । निर्बीजा वासना यत्र तत् तुर्यं सिद्धिदं स्मृतम्
वासनायास् तथा वह्नेर् ऋणव्याधिद्विषाम् अपि । स्नेहवैरविषाणां च शेषस् स्वल्पो ऽपि बाधते
निर्दग्धवासनाबीजस् सत्तासामान्यरूपवान् । सदेहो वा विदेहो वा न भूयो दुःखभाग् भवेत्
चिच्छक्तिर् वासनाबीजरूपिणी स्वापधर्मिणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु
बीजेषूल्लासरूपेण जाड्येन जडरूपिषु । द्रवेषु द्रवभावेन काठिन्येनेतरेषु च
भस्मन्य् अथादित्यरुचौ पांसुष्व् अप्य् अणुरूपिणी । असितेषु तलस्थित्या शितधारतयासिषु
आत्मशक्तिः पदार्थेषु घटावटपटादिषु । सर्वत्र सत्तासामान्यं रूपम् आश्रित्य तिष्ठति
इतीयम् अखिलां दृश्यदशाम् आदाय संस्थिता । यथा घनपटा प्रावृड् अम्बरालम्बिनी तथा
स्वरूपम् अस्याश् चैवैतत् कथितं प्रविचारितम् । असर्वं सर्वतो व्यापि सद् इवासन्मयात्मकम्
आत्मदृष्टिर् अदृष्टैषा संसृतिभ्रमदायिनी । दृष्टा सती समग्राणां दुःखानां क्षयकारिणी
अस्यास् त्व् अदर्शनं यत् तद् अविद्येत्य् उच्यते बुधैः । अविद्या हि जगद्धेतुस् ततस् सर्वं प्रवर्तते
अविद्या रूपरहिता यावद् एवावलोक्यते । तावद् एव गलत्य् आशु तुहिनाणुर् यथातपे
यथा नरो गलन्निद्रो यावत् कलनया मनाक् । विमृशत्य् आशयं तावन् निद्रा तस्य विलीयते
तथा कीदृग् अवस्त्व् एतद् इति यावद् विकल्प्यते । अविद्या क्षीयते तावद् आलोकेनान्धता यथा