सूर्यकान्ते यथा वह्निर् यथा क्षीरे घृतं तथा । तत्रेदं संस्थितं सर्वं देशकालक्रमोदयम्
यथा स्फुलिङ्गा अनलाद् यथा भासो दिवाकरात् । तस्मात् तथेमा निर्यान्ति स्फुरन्त्यस् संविदस् स्थिताः
यथाम्भोधिस् तरङ्गाणां यथामलमणिस् त्विषाम् । कोशो नित्यम् अनन्तानां तथा तत् संविदां त्विषाम्
सबाह्याभ्यन्तरं सर्ववस्तूनां तद् अवस्थितम् । सर्वदैवाविनाशात्म कुम्भानां गगनं यथा
यथा मणेर् अयस्स्पन्देष्व् अयस्कान्तस्य कर्तृता । अकर्तुर् एव हि तथा कर्तृता तस्य कल्प्यते
मणिसन्निधिमात्रेण यथायस् स्पन्दते जडम् । तत्सत्तया तथैवायं देहश् चोपत्य् अचिद्वपुः
तत्र स्थितं जगद् इदं जगदेकबीजे चिन्नाम्नि संविद् इति कल्पितकल्पने च । लोलोर्मिजालम् इव वारिणि चित्स्वरूपं खाद् अप्य् अरूपवति यत्र नकिञ्चिद् अस्ति
तस्मान् नकिञ्चिद् एवेदं जगत् स्थावरजङ्गमम् । न किञ्चिद् भूततां यातं यत् किञ्चिद् अपि विद्धि हे
तत्र काचिन् न कलना भावाभावमयात्मिका । तद् इदं राम जीवादि सर्वं व्यर्थं किम् ईहसे
सुबुद्धो ऽयम् असाव् अन्तर् इति यो व्यपदिश्यते । न तं लभामहे सर्पं रज्जुसर्पभ्रमाद् इव
अपरिज्ञात आत्मैव भ्रमतां समुपागतः । ज्ञात आत्मत्वम् आयाति सीमान्तं सर्वसंविदाम्
अविद्येत्य् उच्यते लोके चिच् चेत्यमलमालिता । चेत्यातीताच्छताम् एति सर्वोपाधिविवर्जिता
चित्तमात्रं हि पुरुषस् तस्मिन् नष्टे न नश्यति । स्थिते तिष्ठति नात्मायं घटे सति यथाम्बरम्
गच्छन् पश्यति गच्छन्तं स्थितं तिष्ठञ् शिशुर् यथा । भानुम् एवम् इदं चेतः पश्यत्य् आत्मानम् आकुलम्
कोशकारवद् आत्मानं वासनाननतन्तुभिः । वेष्टयंश् चैव चेतो ऽन्तर् बालत्वान् नावबुध्यते
मौर्ख्यम् अत्यन्तघनताम् आगतं सदवस्थितम् । स्थावरादितनुं प्राप्तं कीदृशं भवति प्रभो
अमनस्त्वम् असम्प्राप्तं मनस्त्वाद् अपि विच्युतम् । तटस्थं रूपम् आश्रित्य स्थितैषा स्थावरेषु चित्
सुप्तपुर्यष्टका यत्र संस्थिता दुःखदायिनी । मूकान्धजडवत् तत्र सत्तामात्रेण तिष्ठति
सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् । तत्रादूरस्थितां मुक्तिं मन्ये वेद्यविदां वर
बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् । सत्तासामान्यबोधो यस् स मोक्षश् चेद् अनन्तकः
परिज्ञाय परित्यागो वासनानां य उत्तमः । सत्तासामान्यरूपत्वं तत् कैवल्यपदं विदुः
विचार्यार्यैस् सहालोक्य शास्त्राण्य् अध्यात्मभावनात् । सत्तासामान्यनिष्ठत्वं यत् तद् ब्रह्म परं विदुः
अन्तस् सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः । वासना तत् सुषुप्तत्वं विद्धि जन्मप्रदं पुनः
अन्तस् संलीनमननं परितस् सुप्तवासनम् । सुषुप्तं जडधर्मापि जन्मदुःखशतप्रदम्
स्थावरादय एते हि समस्ता जडधर्मिणः । सुषुप्तपदम् आरूढा जन्मयोग्याः पुनः पुनः
यथा बीजेषु पुष्पाणि मृदो राशौ यथा घटाः । तथान्तस् संस्थितास् साधो स्थावरेषु स्ववासनाः
यत्रास्ति वासनाबीजं तत् सुषुप्तं न सिद्धये । निर्बीजा वासना यत्र तत् तुर्यं सिद्धिदं स्मृतम्
वासनायास् तथा वह्नेर् ऋणव्याधिद्विषाम् अपि । स्नेहवैरविषाणां च शेषस् स्वल्पो ऽपि बाधते
निर्दग्धवासनाबीजस् सत्तासामान्यरूपवान् । सदेहो वा विदेहो वा न भूयो दुःखभाग् भवेत्
चिच्छक्तिर् वासनाबीजरूपिणी स्वापधर्मिणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु