पयस्तरङ्गयोर् ऐक्यं यथैव परमार्थतः । विद्याविद्यादृशोर् ऐक्यं तथैव परमार्थतः
नाविद्यात्वं न विद्यात्वम् इह किञ्चन विद्यते । विद्याविद्यादृशौ त्यक्त्वा यद् अस्तीह तद् अस्ति हि
प्रतियोगिव्यवच्छेदवशाद् एते रघूद्वह । विद्याविद्यादृशौ न स्तश् शेषे बद्धपदो भव
नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया । किञ्चिद् अस्ति नकिञ्चिद् यच् चित्संविद् इति तत् स्थितम्
तद् एवाविदिताभासं सद् अविद्येत्य् उदाहृतं । विदितं सत् तद् एवेदम् अविद्याक्षयसञ्ज्ञितम्
विद्याभावाद् अविद्याख्या मिथ्यैवोदेति कल्पना । मिथस् सत्तैतयोर् अन्ते छायातापदृशोर् इव
अविद्यायां तु लीनायां क्षणाद् द्वे एव कल्पने । एते राघव लीयेते अवाच्यं परिशिष्यते
अविद्यासङ्क्षयात् क्षीणे विद्यापक्षे ऽपि राघव । यच् छिष्टं तन् नकिञ्चिद् वा किञ्चिद् वापीदम् आततम्
तत्रेदं दृश्यते सर्वं न च किञ्चन दृश्यते । वटस् स्ववटधानायाम् इव पुष्पफलादिमान्
तत् सर्वशक्ति कचितं सर्वशक्तिसमुद्गकम् । नभसो ऽप्य् अधिकं शून्यम् अवेद्यं च चिदात्मकम्
सूर्यकान्ते यथा वह्निर् यथा क्षीरे घृतं तथा । तत्रेदं संस्थितं सर्वं देशकालक्रमोदयम्
यथा स्फुलिङ्गा अनलाद् यथा भासो दिवाकरात् । तस्मात् तथेमा निर्यान्ति स्फुरन्त्यस् संविदस् स्थिताः
यथाम्भोधिस् तरङ्गाणां यथामलमणिस् त्विषाम् । कोशो नित्यम् अनन्तानां तथा तत् संविदां त्विषाम्
सबाह्याभ्यन्तरं सर्ववस्तूनां तद् अवस्थितम् । सर्वदैवाविनाशात्म कुम्भानां गगनं यथा
यथा मणेर् अयस्स्पन्देष्व् अयस्कान्तस्य कर्तृता । अकर्तुर् एव हि तथा कर्तृता तस्य कल्प्यते
मणिसन्निधिमात्रेण यथायस् स्पन्दते जडम् । तत्सत्तया तथैवायं देहश् चोपत्य् अचिद्वपुः
तत्र स्थितं जगद् इदं जगदेकबीजे चिन्नाम्नि संविद् इति कल्पितकल्पने च । लोलोर्मिजालम् इव वारिणि चित्स्वरूपं खाद् अप्य् अरूपवति यत्र नकिञ्चिद् अस्ति
तस्मान् नकिञ्चिद् एवेदं जगत् स्थावरजङ्गमम् । न किञ्चिद् भूततां यातं यत् किञ्चिद् अपि विद्धि हे
तत्र काचिन् न कलना भावाभावमयात्मिका । तद् इदं राम जीवादि सर्वं व्यर्थं किम् ईहसे
सुबुद्धो ऽयम् असाव् अन्तर् इति यो व्यपदिश्यते । न तं लभामहे सर्पं रज्जुसर्पभ्रमाद् इव
अपरिज्ञात आत्मैव भ्रमतां समुपागतः । ज्ञात आत्मत्वम् आयाति सीमान्तं सर्वसंविदाम्
अविद्येत्य् उच्यते लोके चिच् चेत्यमलमालिता । चेत्यातीताच्छताम् एति सर्वोपाधिविवर्जिता
चित्तमात्रं हि पुरुषस् तस्मिन् नष्टे न नश्यति । स्थिते तिष्ठति नात्मायं घटे सति यथाम्बरम्
गच्छन् पश्यति गच्छन्तं स्थितं तिष्ठञ् शिशुर् यथा । भानुम् एवम् इदं चेतः पश्यत्य् आत्मानम् आकुलम्
कोशकारवद् आत्मानं वासनाननतन्तुभिः । वेष्टयंश् चैव चेतो ऽन्तर् बालत्वान् नावबुध्यते
मौर्ख्यम् अत्यन्तघनताम् आगतं सदवस्थितम् । स्थावरादितनुं प्राप्तं कीदृशं भवति प्रभो
अमनस्त्वम् असम्प्राप्तं मनस्त्वाद् अपि विच्युतम् । तटस्थं रूपम् आश्रित्य स्थितैषा स्थावरेषु चित्
सुप्तपुर्यष्टका यत्र संस्थिता दुःखदायिनी । मूकान्धजडवत् तत्र सत्तामात्रेण तिष्ठति
सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् । तत्रादूरस्थितां मुक्तिं मन्ये वेद्यविदां वर
बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् । सत्तासामान्यबोधो यस् स मोक्षश् चेद् अनन्तकः