क्वचिन् नरकसंलीना क्वचित् स्वर्गनिवासिनी । क्वचित् सुरपदं प्राप्ता क्वचित् क्रिमितया स्थिता
क्वचिद् विष्णुः क्वचिद् ब्रह्मा क्वचिद् रुद्रः क्वचिद् रविः । क्वचिद् अग्निः क्वचिद् वायुः क्वचिच् चन्द्रः क्वचिद् यमः
यत् किञ्चनाङ्ग भुवनेषु महामहिम्ना व्याप्तं जरत्तृणलवत्वम् उपागतं वा । दृश्यं स्फुरत्तनु हराद्य् अपि ताम् अविद्यां विद्धि क्षयाय तदतीततयात्मलाभः
आकारजातम् उदितं शुद्धं हरिहराद्य् अपि । अविद्यैवेत्य् अहं श्रुत्वा ब्रह्मन् भ्रमम् इवागतः
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् । तत् सच् चिद् अपि चाभासम् अस्तीह कलनोज्झितम्
समुदेति ततस् तस्मात् कला कलनरूपिणी । जलाद् आवर्तरूपेव स्फुरद्रूपतयोदिता
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा । पश्चान् मनस्त्वं यातेन स्वेनैव वपुषा पुनः
तिसृष्व् अवस्थास्व् एतासु भेदतः कल्पिताभिधा । सत्त्वं रजस् तम इति सैषैव प्रकृतिस् स्फुटा
अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् । एषैव संसृतिर् जन्तोर् अस्याः पारं परं पदम्
अत्रैते ये त्रयः प्रोक्ता गुणास् ते ऽपि त्रिधा स्मृताः । सत्त्वं रजस् तम इति प्रत्येकं भिद्यते गुणः
नवधैव विभक्तेयम् अविद्या गुणभेदतः । यावत् किञ्चिद् इदं दृश्यम् अनयैव तद् आश्रितम्
ऋषयो मुनयस् सिद्धा नागा विद्याधरास् सुराः । इति भागम् अविद्यायास् सात्त्विकं विद्धि राघव
सात्त्विकस्यास्य भागस्य नागा विद्याधरास् तमः । रजस् तु मुनयस् साध्यास् सत्त्वं देवा हरादयः
सत्त्वजाते देवयोनाव् अविद्याप्रकृतेर् गुणे । निर्मलं पदम् आयातं सत्त्वं हरिहरादयः
सात्त्विकः प्रकृतेर् भागो राम तज्ज्ञो हि यो भवेत् । न प्रमुह्यत्य् असौ भूयस् तेनासौ मुक्त उच्यते
तेन रुद्रादयो ह्य् एते सत्त्वभागा महामते । तिष्ठन्ति मुक्तपुरुषा यावद्देहं जगत्स्थितौ
यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः । विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वराः
भाग एष त्व् अविद्याया एव विद्यात्वम् आगतः । बीजं फलत्वम् आयाति फलम् आयाति बीजताम्
उदेत्य् अविद्या विद्यायास् सलिलाद् इव बुद्बुदः । विद्यायां लीयते ऽविद्या पयसीव हि बुद्बुदः
पयस्तरङ्गयोर् द्वित्वभावनाद् एव भिन्नता । विद्याविद्यादृशोर् भेदभावनाद् एव भिन्नता
पयस्तरङ्गयोर् ऐक्यं यथैव परमार्थतः । विद्याविद्यादृशोर् ऐक्यं तथैव परमार्थतः
नाविद्यात्वं न विद्यात्वम् इह किञ्चन विद्यते । विद्याविद्यादृशौ त्यक्त्वा यद् अस्तीह तद् अस्ति हि
प्रतियोगिव्यवच्छेदवशाद् एते रघूद्वह । विद्याविद्यादृशौ न स्तश् शेषे बद्धपदो भव
नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया । किञ्चिद् अस्ति नकिञ्चिद् यच् चित्संविद् इति तत् स्थितम्
तद् एवाविदिताभासं सद् अविद्येत्य् उदाहृतं । विदितं सत् तद् एवेदम् अविद्याक्षयसञ्ज्ञितम्
विद्याभावाद् अविद्याख्या मिथ्यैवोदेति कल्पना । मिथस् सत्तैतयोर् अन्ते छायातापदृशोर् इव
अविद्यायां तु लीनायां क्षणाद् द्वे एव कल्पने । एते राघव लीयेते अवाच्यं परिशिष्यते
अविद्यासङ्क्षयात् क्षीणे विद्यापक्षे ऽपि राघव । यच् छिष्टं तन् नकिञ्चिद् वा किञ्चिद् वापीदम् आततम्
तत्रेदं दृश्यते सर्वं न च किञ्चन दृश्यते । वटस् स्ववटधानायाम् इव पुष्पफलादिमान्
तत् सर्वशक्ति कचितं सर्वशक्तिसमुद्गकम् । नभसो ऽप्य् अधिकं शून्यम् अवेद्यं च चिदात्मकम्