कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे । सर्गाद् अनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः
परमे ब्रह्मणि ब्रह्मा स्वभाववशतस् स्वयम् । जातस् स्पन्दमयो नित्यम् ऊर्मिर् अम्बुनिधाव् इव
सृष्ट्वैवम् आततं सर्गं सर्गस्य सकला गतीः । भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः
सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते । मोहम् आलोक्य लोकानां कारुण्यम् अगमत् प्रभुः
ततो माम् ईश्वरस् सृष्ट्वा ज्ञानेनायोज्य चासकृत् । विससर्ज महीपीठे लोकस्याज्ञानशान्तये
यथाहं प्रहितस् तेन तथान्ये ऽपि महर्षयः । सनत्कुमारप्रमुखा नारदाद्याश् च भूरिशः
क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च । मनोमहामयोत्तब्धम् उद्धर्तुं लोकम् ईरिताः
महर्षिभिस् ततस् तैस् तु क्षीणे कृतयुगे पुरा । क्रमात् क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते
क्रियाक्रमविधानार्थं मर्यादानियमाय च । पृथग्देशविभागेन भूपालाः परिकल्पिताः
बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ । धर्मकामार्थसिद्ध्यर्थं कल्पितान्य् उदितान्य् अथ
कालचक्रे वहत्य् अस्मिंस् ततो विगलिते क्रमे । प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे
द्वन्द्वानि सम्प्रवृत्तानि विषयार्थं महीभुजाम् । दण्ड्यतां सम्प्रयातानि भूतानि भुवि भूरिशः
ततो युद्धं विना भूपा महीं पालयितुं क्रमात् । असमर्थास् तद् आयाताः प्रजाभिस् सह दीनताम्
तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च । ततो ऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः
अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता । तदनु प्रसृता लोके राजविद्येत्य् उदाहृता
राजविद्या राजगुह्यम् अध्यात्मग्रन्थम् उत्तमम् । ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः
अथ राजस्व् अतीतेषु बहुष्व् अमलकीर्तिषु । अस्माद् दशरथाद् राम जातो ऽद्य त्वम् इहावनौ
तव चातिप्रसन्ने ऽस्मिञ् जातं मनसि पावनम् । निर्निमित्तम् इदं चारु वैराग्यम् अरिमर्दन
सर्वस्यैव हि भव्यस्य साधोर् अपि विवेकिनः । निमित्तपूर्वं वैराग्यं जायते राम राजसम्
इदं त्व् अपूर्वम् उत्पन्नं चमत्कारकरं सताम् । तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम्
बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते । सतां तूत्तमवैराग्यं विवेकाद् एव जायते
ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि । वैराग्यं जायते येषां त एवामलमानसाः
स्वविवेकचमत्कारपरामर्शविरक्तया । राजते हि धिया जन्तुर् युवेव वनमालया
परामृश्य विवेकेन संसाररचनाम् इमाम् । विरागं ये ऽधिगच्छन्ति त एव पुरुषोत्तमाः
स्वविवेकवशाद् एव विचार्येदं पुनः पुनः । इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात्
श्मशानम् आपदं दैन्यं दृष्ट्वा को न विरज्यते । तद् वैराग्यं परं श्रेयस् स्वतो यद् अभिजायते
अकृत्रिमविरागस् त्वं महत्ताम् अलम् आगतः । योग्यो ऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम्
प्रसादात् परमेशस्य नाथस्य परमात्मनः । त्वादृशस्य शुभा बुद्धिर् विवेकम् अनुधावति
क्रियाक्रमेण महता तपसा नियमेन च । दानेन तीर्थयात्राभिश् चिरकालविवेकतः
दुष्कृते क्षयम् आपन्ने परमार्थविचारणे । काकतालीययोगेन बुद्धिर् जन्तोः प्रवर्तते