विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयो हि याः । व्योम्नि वातविलोलानि पुष्पाण्य् अस्याः किलाङ्ग ताः
अस्याः प्रस्फुरिताकाराः कोरकत्वम् उपागताः । पूरिताकाशकोशा यास् तारका रघुनन्दन
चन्द्रार्कदहनालोका अस्यास् तत् कौसुमं रजः । अनेनेयं हि गौराङ्गी स्त्रीवच् चेतांसि कर्षति
मनोमातङ्गवलिता सङ्कल्पकलकोकिला । इन्द्रियव्यालशबला तृष्णात्वगुपरञ्जिता
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता । रोदसीजानुसुस्तम्भा भुवनोद्यानभूस्थिता
अधोब्रह्माण्डखण्डेन स्वालवालेन जालिना । विहिताशेषजलधिजलक्षीरादिसेचना
त्रयीविलोलभ्रमरा रमणीपुष्परञ्जिता । चित्स्पन्दवातवलिता क्रियाविपुलपत्त्रिका
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा । जीवजीवकनीरन्ध्रा नानामोदमदप्रदा
नानारसमयी चित्रा नानाकुसुमहासिनी । नानाफलावलिव्याप्ता नानावर्णविकासिनी
नानालवालवलया नानाविहगधारिणी । नानापरागपरुषा नानाभ्रलवलाञ्छिता
नानालताकुट्मलिता नानावनगणोत्थिता । नानागिरितटारूढा नानाचलनिरन्तरा
जाता च जायमाना च म्रियमाणा तथा मृता । अनुच्छिन्ना तथा च्छिन्ना नित्यम् अच्छेदिनी तथा
अतीता वर्तमाना च सत्येवासत्पदास्पदा । नित्यम् अत्यन्ततरुणा नित्यं शमम् उपेयुषी
महाविषलतैषा हि संसारविषमूर्छनाम् । ददाति रभसा श्लिष्टा परामृष्टा विनश्यति
स्फीतेतो गलितेतश् च रूढेतस् संस्थितान्व् इतः । इतो जलम् इतश् शैला इतो नागास् सुरा इतः
इतः पृथ्वीत्वम् आयाता तथेतो द्युतया स्थिता । इतश् चन्द्रार्कतां प्राप्ता तथेतस् तारकाकृतिम्
इतस् तम इतस् तेज इतः खम् इत उर्वरा । इतश् शास्त्रम् इतो वेदा इतो द्वयविवर्जिता
इतः पुण्यम् इतः पापम् इतस् स्थावरमूढता । इतो ज्ञानात् परिक्षीणा पीनेतो ऽज्ञानभावनात्
इतः पुण्यतपोदानैः क्षीयमाणतया स्थिता । इतो योगविलासेन नूनं क्षयम् उपागता
क्वचित् खगतयोड्डीना क्वचिद् देवतया स्थिता । क्वचित् स्थाणुतया रूढा क्वचित् पवनतां गता
क्वचिन् नरकसंलीना क्वचित् स्वर्गनिवासिनी । क्वचित् सुरपदं प्राप्ता क्वचित् क्रिमितया स्थिता
क्वचिद् विष्णुः क्वचिद् ब्रह्मा क्वचिद् रुद्रः क्वचिद् रविः । क्वचिद् अग्निः क्वचिद् वायुः क्वचिच् चन्द्रः क्वचिद् यमः
यत् किञ्चनाङ्ग भुवनेषु महामहिम्ना व्याप्तं जरत्तृणलवत्वम् उपागतं वा । दृश्यं स्फुरत्तनु हराद्य् अपि ताम् अविद्यां विद्धि क्षयाय तदतीततयात्मलाभः
आकारजातम् उदितं शुद्धं हरिहराद्य् अपि । अविद्यैवेत्य् अहं श्रुत्वा ब्रह्मन् भ्रमम् इवागतः
संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् । तत् सच् चिद् अपि चाभासम् अस्तीह कलनोज्झितम्
समुदेति ततस् तस्मात् कला कलनरूपिणी । जलाद् आवर्तरूपेव स्फुरद्रूपतयोदिता
सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा । पश्चान् मनस्त्वं यातेन स्वेनैव वपुषा पुनः
तिसृष्व् अवस्थास्व् एतासु भेदतः कल्पिताभिधा । सत्त्वं रजस् तम इति सैषैव प्रकृतिस् स्फुटा
अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् । एषैव संसृतिर् जन्तोर् अस्याः पारं परं पदम्
अत्रैते ये त्रयः प्रोक्ता गुणास् ते ऽपि त्रिधा स्मृताः । सत्त्वं रजस् तम इति प्रत्येकं भिद्यते गुणः