बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्परावृता । देहयष्टिर् इयं यस्यास् त्रिलोकी लोकलासिनी
सुखं दुःखं भवो भावो ज्ञानम् अज्ञानम् एव च । अत्रैतान्य् उरुवृत्तानि मूलानि च फलानि च
सुखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते प्रयच्छति । दुःखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते फलत्य् अलम्
भवाद् अविद्योदेत्य् एषा तम् एव फलति स्फुटम् । भावात् सत्ताम् अवाप्नोति तम् एव फलति क्षणात्
अज्ञानाद् वृद्धिम् आयाति तद् एवास्याः फलं स्मृतम् । ज्ञानेन याति संवित्तिं तद् एवान्ते प्रयच्छति
नानाविधोल्लासवती वासनामोददायिनी । घनप्रवालपटला तनुर् अस्या विजृम्भते
दिवसव्यूहकुसुमा यामिनीलोलषट्पदा । अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा
आगत्यागत्य तरसा विवेककरिणा क्वचित् । विधूयते धूतरजःप्रसरा पुनर् एति च
जायमानप्रवालाढ्या सञ्जाताङ्कुरदन्तुरा । सर्वर्तुकुसुमोपेता समग्ररसशालिनी
जन्मपर्वालिनीरन्ध्रा विनाशच्छिद्रदद्रुला । भोगाभोगरसापूर्णा विचारैकघुणक्षता
विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयो हि याः । व्योम्नि वातविलोलानि पुष्पाण्य् अस्याः किलाङ्ग ताः
अस्याः प्रस्फुरिताकाराः कोरकत्वम् उपागताः । पूरिताकाशकोशा यास् तारका रघुनन्दन
चन्द्रार्कदहनालोका अस्यास् तत् कौसुमं रजः । अनेनेयं हि गौराङ्गी स्त्रीवच् चेतांसि कर्षति
मनोमातङ्गवलिता सङ्कल्पकलकोकिला । इन्द्रियव्यालशबला तृष्णात्वगुपरञ्जिता
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता । रोदसीजानुसुस्तम्भा भुवनोद्यानभूस्थिता
अधोब्रह्माण्डखण्डेन स्वालवालेन जालिना । विहिताशेषजलधिजलक्षीरादिसेचना
त्रयीविलोलभ्रमरा रमणीपुष्परञ्जिता । चित्स्पन्दवातवलिता क्रियाविपुलपत्त्रिका
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा । जीवजीवकनीरन्ध्रा नानामोदमदप्रदा
नानारसमयी चित्रा नानाकुसुमहासिनी । नानाफलावलिव्याप्ता नानावर्णविकासिनी
नानालवालवलया नानाविहगधारिणी । नानापरागपरुषा नानाभ्रलवलाञ्छिता
नानालताकुट्मलिता नानावनगणोत्थिता । नानागिरितटारूढा नानाचलनिरन्तरा
जाता च जायमाना च म्रियमाणा तथा मृता । अनुच्छिन्ना तथा च्छिन्ना नित्यम् अच्छेदिनी तथा
अतीता वर्तमाना च सत्येवासत्पदास्पदा । नित्यम् अत्यन्ततरुणा नित्यं शमम् उपेयुषी
महाविषलतैषा हि संसारविषमूर्छनाम् । ददाति रभसा श्लिष्टा परामृष्टा विनश्यति
स्फीतेतो गलितेतश् च रूढेतस् संस्थितान्व् इतः । इतो जलम् इतश् शैला इतो नागास् सुरा इतः
इतः पृथ्वीत्वम् आयाता तथेतो द्युतया स्थिता । इतश् चन्द्रार्कतां प्राप्ता तथेतस् तारकाकृतिम्
इतस् तम इतस् तेज इतः खम् इत उर्वरा । इतश् शास्त्रम् इतो वेदा इतो द्वयविवर्जिता
इतः पुण्यम् इतः पापम् इतस् स्थावरमूढता । इतो ज्ञानात् परिक्षीणा पीनेतो ऽज्ञानभावनात्
इतः पुण्यतपोदानैः क्षीयमाणतया स्थिता । इतो योगविलासेन नूनं क्षयम् उपागता
क्वचित् खगतयोड्डीना क्वचिद् देवतया स्थिता । क्वचित् स्थाणुतया रूढा क्वचित् पवनतां गता