कालागाधसरस्यां तु स्थित्वा स्थित्वा पुनः पुनः । कल्पमात्रनिमेषेण डीनं संसारसारसैः
उत्पत्योत्पत्य नाशिन्यस् सन्ततास् सृष्टिविद्युतः । कालमेघे स्फुरन्त्य् एताश् चित्प्रकाशमनोरमाः
प्रध्वनद्भूतविहगाः पतन्त्य् अविरतद्रुताः । कालतालात् किलोत्तालाद् ब्रह्माण्डफलपालयः
उन्मेषकृतवैरिञ्चसृष्टयो देवनायकाः । निमेषकृतसंहारास् सन्ति केचन कुत्रचित्
निमेषोन्मेषसङ्क्षीणकल्पजालास् सहस्रशः । रुद्राः केचन विद्यन्ते कस्मिंश्चित् परमे पुरे
ते ऽपि यस्य निमेषेण भवन्ति न भवन्ति वा । तादृशो ऽप्य् अस्ति देवेशो ह्य् अनन्तेयं क्रियास्थितिः
अनन्तसङ्कल्पमये शून्ये च ब्रह्मणः पदे । न सम्भवन्ति का नाम शक्तयश् चित्रयुक्तयः
एवम् अक्षीणसङ्कल्पकल्पार्थभरभास्वरा । जागती कलना येयं तद् अज्ञानविजृम्भितम्
यत् सम्पदो यद् उत सन्ततम् आपदश् च यद् बाल्ययौवनजरामरणोपतापाः । यन् मज्जनं च सुखदुःखपरम्पराभिर् अज्ञानतीव्रतिमिरस्य विभूतयस् ताः
संसारवनषण्डे ऽस्मिंश् चित्पर्वततटस्थिते । कीदृशी खल्व् अविद्याख्या लता विकसिता तता
बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्परावृता । देहयष्टिर् इयं यस्यास् त्रिलोकी लोकलासिनी
सुखं दुःखं भवो भावो ज्ञानम् अज्ञानम् एव च । अत्रैतान्य् उरुवृत्तानि मूलानि च फलानि च
सुखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते प्रयच्छति । दुःखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते फलत्य् अलम्
भवाद् अविद्योदेत्य् एषा तम् एव फलति स्फुटम् । भावात् सत्ताम् अवाप्नोति तम् एव फलति क्षणात्
अज्ञानाद् वृद्धिम् आयाति तद् एवास्याः फलं स्मृतम् । ज्ञानेन याति संवित्तिं तद् एवान्ते प्रयच्छति
नानाविधोल्लासवती वासनामोददायिनी । घनप्रवालपटला तनुर् अस्या विजृम्भते
दिवसव्यूहकुसुमा यामिनीलोलषट्पदा । अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा
आगत्यागत्य तरसा विवेककरिणा क्वचित् । विधूयते धूतरजःप्रसरा पुनर् एति च
जायमानप्रवालाढ्या सञ्जाताङ्कुरदन्तुरा । सर्वर्तुकुसुमोपेता समग्ररसशालिनी
जन्मपर्वालिनीरन्ध्रा विनाशच्छिद्रदद्रुला । भोगाभोगरसापूर्णा विचारैकघुणक्षता
विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयो हि याः । व्योम्नि वातविलोलानि पुष्पाण्य् अस्याः किलाङ्ग ताः
अस्याः प्रस्फुरिताकाराः कोरकत्वम् उपागताः । पूरिताकाशकोशा यास् तारका रघुनन्दन
चन्द्रार्कदहनालोका अस्यास् तत् कौसुमं रजः । अनेनेयं हि गौराङ्गी स्त्रीवच् चेतांसि कर्षति
मनोमातङ्गवलिता सङ्कल्पकलकोकिला । इन्द्रियव्यालशबला तृष्णात्वगुपरञ्जिता
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता । रोदसीजानुसुस्तम्भा भुवनोद्यानभूस्थिता
अधोब्रह्माण्डखण्डेन स्वालवालेन जालिना । विहिताशेषजलधिजलक्षीरादिसेचना
त्रयीविलोलभ्रमरा रमणीपुष्परञ्जिता । चित्स्पन्दवातवलिता क्रियाविपुलपत्त्रिका
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा । जीवजीवकनीरन्ध्रा नानामोदमदप्रदा
नानारसमयी चित्रा नानाकुसुमहासिनी । नानाफलावलिव्याप्ता नानावर्णविकासिनी
नानालवालवलया नानाविहगधारिणी । नानापरागपरुषा नानाभ्रलवलाञ्छिता