भुक्तेन्दुखण्डकबिसा नीलनीरदशेवले । स्वर्गमार्गसरस्य् अन्तस् स्फुरन्ति सुरसारसाः
नानाफलावलिमती वासनाजलमालिता । स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी
वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले । कृतान्तवृद्धगृध्रेण शठेन विनिगीर्यते
तरङ्गफेनमालेव सैवान्येव च भङ्गुरा । श्वश् श्वो ऽपरेन्दुलेखेव समुदेति विचित्रता
भूरिभूतशरावाणि क्षणभङ्गीनि कुर्वता । इदं कालकुलालेन चक्रं विपरिवर्त्यते
असङ्ख्यातान्य् अनल्पानि सञ्जातान्य् अचले पदे । जगज्जङ्गलजालानि दग्धानि युगवह्निना
भावाभावैर् अपर्यन्तैस् सुखदुःखदशाशतैः । वैपरीत्यं प्रयातीयम् अजस्रं जागती स्थितिः
क्षुब्धैर् युगपरावर्तैर् वासनाशृङ्खलोम्भिता । मोहाशनिनिपातैश् च न रुग्णा ध्रुवधीरता
शतशो विद्रुतारीन्द्रैर् दनुपुत्रैर् अभिद्रुताम् । भगभग्नत्रपाम् ऐन्द्रीं तनुं वहति वासना
विशत्य् अविरतं धूतसर्गपांसुपरम्परा । नित्यं नियतिवात्येयं कालव्यालगलान्तरम्
पदार्थाम्भांसि सर्वाणि फलफेनानि सर्वतः । पतन्त्य् अविरतापातम् अभाववडवामुखम्
स्फुरन्त्य् आकस्मिकोद्भूता विचित्रा द्रव्यशक्तयः । स्वभावमात्रसम्पन्नास् स्पन्दश्रिय इवाम्भसाम्
भूतमौक्तिकसम्पूर्णान् बृहतस् सुबहून् अपि । जगत्कलभकान् अत्ति कृतान्तोद्रिक्तकेसरी
कुलशैलफला मेघपक्षपुञ्जा जलासृजः । जायन्ते च म्रियन्ते च डीयन्ते च जगत्खगाः
चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिर् इन्द्रियैः । उन्मीलयति संसारचित्राणि विधिचित्रकृत्
अजस्रगत्वरीं सर्वपरिस्पन्दविधायिनीं । निमेषशतभागाङ्गीम् अच्छाम् उत्साहिताङ्कुराम्
सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् । ध्यानेनेवान्ववेक्षन्ते स्थिरास् स्थावरजातयः
रागद्वेषसमुत्थेन भावाभावमयेन च । जरामरणमोहेन जीर्णा जङ्गमजातयः
स्वदुष्कृतोत्तमध्यानधारिण्यो धरणीतले । नियत्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः
क्षणेनादृश्य एवेदं निगिरत्य् अखिलं सुखी । सुदुर्लक्ष्यबिलः कालव्यालो विपुलभोगवान्
क्षणादिकल्पपर्यन्तस् तेजस्तिमिररञ्जनात् । कालेन किञ्चिद् आलक्ष्यस् स्वकाय उररीकृतः
शीतवातातपप्रौढाः प्रोल्लसत्पुष्पदीप्तयः । फलप्रदाश् चरन्तीह कालखे षडृतुग्रहाः
ब्रह्माण्डभैक्षभाण्डे ऽसौ काली भगवती क्रिया । स्वयं दत्त्वैव दत्त्वैव भूतभिक्षां जिघृक्षति
पयःपटलविश्रान्तत्रैलोक्याम्भोजकोटरे । करोति घुङ्घुमं भूरि भूतभ्रमरपेटकः
तिमिरानीलकवरी अर्केन्दुचपलेक्षणा । ब्रह्मोपेन्द्रहरेन्द्रादिधरागिरिवराङ्गिका
ब्रह्मतत्त्वैकपितृका लम्बमानपयोधरा । चिच्छक्तिमातृका स्थूला तरला घनचापला
तारकाजालदशना सन्ध्यारुणतराधरा । समस्तपद्मिनीहस्ता शतक्रतुपुरानना
सप्ताब्धिमुक्तालतिका नीलाम्बरपरावृता । जम्बुद्वीपमहानाभिर् वनश्रीरोमराजिका
भूत्वा भूत्वा विनश्यन्ती त्रिलोकीवृद्धकामिनी । असकृज् जायते नष्टा भूरिविभ्रमकारिणी
मग्नम् अन्यैर् अथोन्मग्नं भीमे कालमहार्णवे । प्रतिकल्पक्षणं क्षीणैर् ब्रह्माण्डस्फुटबुद्बुदैः