अन्तश्शून्योन्नतध्वस्तचित्तचैत्यकृतालयः । याच्ञाबहुलयामिन्यां लोभोलूको विवल्गति
पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्तम् अभितश् चिरम् । जराजर्जरमार्जारी यौवनाखुं निकृन्तति
निस्सारा क्रमशः क्रान्तधराधरसमुन्नतिः । दिण्डीरपिण्डिकेवेयं सृष्टिर् आयाति पुष्टताम्
आभासपुष्पधवला जगत्पल्लवशालिनी । सत्तालता विकसिता धर्मार्थफलधारिणी
सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् । गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम्
संसारसरसि स्फारे चरन्ति प्राणषट्पदाः । शरीरपुष्करेष्व् अन्तश् चिद्रूपरसपायिनः
नभोमार्गमहानीलकुट्टिमे कान्तिशालिनी । भुवनाववरस्यान्तस् स्फुरत्य् आदित्यदीपिका
आशातन्तुनिबद्धाङ्गी जनताजीर्णपक्षिणी । स्ववासनाशलाकान्ते निबद्धेन्द्रियपञ्जरे
अनारतपतज्जातभूतपर्णपरम्परा । स्पन्दते ऽजगरामृष्टा संसृतिव्रततिश् चिरम्
पृष्ठे कतिपयं कालम् अदृष्टाः कालजालिना । अधःकृतोग्रनरकपङ्काश् शङ्कोज्झिताः क्षणम्
भुक्तेन्दुखण्डकबिसा नीलनीरदशेवले । स्वर्गमार्गसरस्य् अन्तस् स्फुरन्ति सुरसारसाः
नानाफलावलिमती वासनाजलमालिता । स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी
वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले । कृतान्तवृद्धगृध्रेण शठेन विनिगीर्यते
तरङ्गफेनमालेव सैवान्येव च भङ्गुरा । श्वश् श्वो ऽपरेन्दुलेखेव समुदेति विचित्रता
भूरिभूतशरावाणि क्षणभङ्गीनि कुर्वता । इदं कालकुलालेन चक्रं विपरिवर्त्यते
असङ्ख्यातान्य् अनल्पानि सञ्जातान्य् अचले पदे । जगज्जङ्गलजालानि दग्धानि युगवह्निना
भावाभावैर् अपर्यन्तैस् सुखदुःखदशाशतैः । वैपरीत्यं प्रयातीयम् अजस्रं जागती स्थितिः
क्षुब्धैर् युगपरावर्तैर् वासनाशृङ्खलोम्भिता । मोहाशनिनिपातैश् च न रुग्णा ध्रुवधीरता
शतशो विद्रुतारीन्द्रैर् दनुपुत्रैर् अभिद्रुताम् । भगभग्नत्रपाम् ऐन्द्रीं तनुं वहति वासना
विशत्य् अविरतं धूतसर्गपांसुपरम्परा । नित्यं नियतिवात्येयं कालव्यालगलान्तरम्
पदार्थाम्भांसि सर्वाणि फलफेनानि सर्वतः । पतन्त्य् अविरतापातम् अभाववडवामुखम्
स्फुरन्त्य् आकस्मिकोद्भूता विचित्रा द्रव्यशक्तयः । स्वभावमात्रसम्पन्नास् स्पन्दश्रिय इवाम्भसाम्
भूतमौक्तिकसम्पूर्णान् बृहतस् सुबहून् अपि । जगत्कलभकान् अत्ति कृतान्तोद्रिक्तकेसरी
कुलशैलफला मेघपक्षपुञ्जा जलासृजः । जायन्ते च म्रियन्ते च डीयन्ते च जगत्खगाः
चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिर् इन्द्रियैः । उन्मीलयति संसारचित्राणि विधिचित्रकृत्
अजस्रगत्वरीं सर्वपरिस्पन्दविधायिनीं । निमेषशतभागाङ्गीम् अच्छाम् उत्साहिताङ्कुराम्
सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् । ध्यानेनेवान्ववेक्षन्ते स्थिरास् स्थावरजातयः
रागद्वेषसमुत्थेन भावाभावमयेन च । जरामरणमोहेन जीर्णा जङ्गमजातयः
स्वदुष्कृतोत्तमध्यानधारिण्यो धरणीतले । नियत्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः
क्षणेनादृश्य एवेदं निगिरत्य् अखिलं सुखी । सुदुर्लक्ष्यबिलः कालव्यालो विपुलभोगवान्