समुपैति मतिर् दुःखं दुःखं च शतशाखताम् । दुःखशाखासु जायन्ते नानाकर्मफलश्रियः
बद्धजालघनाकाराः कारार्थम् इव रज्जवः । वीरुधः प्रावृषीवाशाः प्रतानगहनस्थिताः
सारतां मोहमिहिका कार्याकार्यविकारिणी । यमुना प्रावृषीवैति तिमिरश्यामलाचिरम्
कटूकृतान्तःकरणो नानाकारविकारदः । स्वदते विगतस्नेहं जन्मप्रतिविषारसः
व्याधूतजर्जराजीर्णजनतापर्णराजयः । स्वकर्मपवना वान्ति नानाकनकरेणवः
कालः कवलितानन्तजगत्पक्वफलो ऽप्य् अयम् । घस्मरापारजठरः कल्पैर् अपि न तृप्यति
मोहमारुतपा मत्तास् त्वराविषविकारिणः । स्फुरन्तीहाहयश् चित्तबिले बलवदापदः
चिन्तापिशाच्योपहता विवेकेन्दूदयं विना । तमसैव निरालोका याति यौवनयामिनी
जिह्वा जर्जरताम् एति प्राकृतानुनयज्वरैः । पद्मकोटरकोणस्थम् अपि पत्त्रं हिमैर् इव
दुःखजीवमहाष्ठीलः कष्टकण्टकसङ्कटः । सहस्रशाखतां याति दारिद्र्यदृढशल्मलिः
अन्तश्शून्योन्नतध्वस्तचित्तचैत्यकृतालयः । याच्ञाबहुलयामिन्यां लोभोलूको विवल्गति
पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्तम् अभितश् चिरम् । जराजर्जरमार्जारी यौवनाखुं निकृन्तति
निस्सारा क्रमशः क्रान्तधराधरसमुन्नतिः । दिण्डीरपिण्डिकेवेयं सृष्टिर् आयाति पुष्टताम्
आभासपुष्पधवला जगत्पल्लवशालिनी । सत्तालता विकसिता धर्मार्थफलधारिणी
सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् । गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम्
संसारसरसि स्फारे चरन्ति प्राणषट्पदाः । शरीरपुष्करेष्व् अन्तश् चिद्रूपरसपायिनः
नभोमार्गमहानीलकुट्टिमे कान्तिशालिनी । भुवनाववरस्यान्तस् स्फुरत्य् आदित्यदीपिका
आशातन्तुनिबद्धाङ्गी जनताजीर्णपक्षिणी । स्ववासनाशलाकान्ते निबद्धेन्द्रियपञ्जरे
अनारतपतज्जातभूतपर्णपरम्परा । स्पन्दते ऽजगरामृष्टा संसृतिव्रततिश् चिरम्
पृष्ठे कतिपयं कालम् अदृष्टाः कालजालिना । अधःकृतोग्रनरकपङ्काश् शङ्कोज्झिताः क्षणम्
भुक्तेन्दुखण्डकबिसा नीलनीरदशेवले । स्वर्गमार्गसरस्य् अन्तस् स्फुरन्ति सुरसारसाः
नानाफलावलिमती वासनाजलमालिता । स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी
वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले । कृतान्तवृद्धगृध्रेण शठेन विनिगीर्यते
तरङ्गफेनमालेव सैवान्येव च भङ्गुरा । श्वश् श्वो ऽपरेन्दुलेखेव समुदेति विचित्रता
भूरिभूतशरावाणि क्षणभङ्गीनि कुर्वता । इदं कालकुलालेन चक्रं विपरिवर्त्यते
असङ्ख्यातान्य् अनल्पानि सञ्जातान्य् अचले पदे । जगज्जङ्गलजालानि दग्धानि युगवह्निना
भावाभावैर् अपर्यन्तैस् सुखदुःखदशाशतैः । वैपरीत्यं प्रयातीयम् अजस्रं जागती स्थितिः
क्षुब्धैर् युगपरावर्तैर् वासनाशृङ्खलोम्भिता । मोहाशनिनिपातैश् च न रुग्णा ध्रुवधीरता
शतशो विद्रुतारीन्द्रैर् दनुपुत्रैर् अभिद्रुताम् । भगभग्नत्रपाम् ऐन्द्रीं तनुं वहति वासना
विशत्य् अविरतं धूतसर्गपांसुपरम्परा । नित्यं नियतिवात्येयं कालव्यालगलान्तरम्