नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा । मूर्खार्थम् एव विकसत्य् अङ्गनाविषवल्लरी
अज्ञवारिधिहृद्भूमाव् एव वेपथुपल्लवः । वर्धते ऽपगतच्छायो रागविद्रुमदुर्द्रुमः
तनुच्छदलसद्धूमश् शस्त्रज्वालो भटोल्मुकः । ज्वलति द्वेषदावो ऽज्ञहृन्मरौ कोपतापदः
अज्ञमात्सर्यसरसि परापवदनच्छदा । ईर्ष्याकमलिनी चिन्ताषट्पदी विकसत्य् अलम्
प्रतिजन्म प्रकृष्टोग्रदुःखकल्लोलसम्भ्रमः । जडम् एव समभ्येति पुनर्मरणवाडवः
जन्मबाल्यं ध्रुवं याति यौवनं युवता जराम् । जरा मरणम् अभ्येति मूढस्यैव पुनः पुनः
जगज्जीर्णारघट्टे ऽस्मिन् रज्ज्वा संसृतिरूपया । मज्जनोन्मज्जनैर् अज्ञा यन्त्रे शकलतां गताः
यद् एव गोष्पदादूरं ज्ञधियः पेलवं जगत् । तद् एवापारपर्यन्तम् अगाधम् अमहात्मनः
धियो ऽदृश इवाज्ञस्य चिद्व्योमोदरकोटरात् । न प्रयान्त्य् अपरं पारं विहङ्ग्यः पञ्जराद् इव
भावमात्रपरावृत्त्या वासनामात्रनाभयः । स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः
अज्ञेनेन्द्रियशय्यार्थं रागासृगरुणा तनुः । संसारारण्य आस्तीर्णा पुनर् आमिषपिण्डवत्
भूतशैलमयी सृष्टिर् मृन्मांसलवमात्रिका । मोहात् संलक्ष्यते चित्तपदार्थानर्थरञ्जना
जयत्य् अनल्पसङ्कल्पकल्पनाकल्पपादपः । अज्ञानां प्रसृता यस्माज् जगत्पर्णपरम्पराः
यस्मिंस् तिष्ठन्ति राजन्ते लसन्ति विलसन्ति च । विचित्ररचनोपेता भूरिभोगविहङ्गमाः
यत्र जन्मानि पर्वाणि कर्मजालं च कोरकाः । फलानि पुण्यपापानि मञ्जर्यो विभवश्रियः
अज्ञानेन्दूदयाद् एता योषिदोषधयस् स्फुटम् । संसारवनषण्डे ऽस्मिन् परां शोभाम् उपागताः
घनजाड्यः कलापूर्णस् तमःकालकृतोदयः । शून्योदितात्मा दोषेशो जयत्य् अज्ञानचन्द्रमाः
अज्ञानेन्दोः प्रसादेन वासनामृतशालिना । तर्पिताशाचकोरेण चित्तरत्नरसैषिणा
राजहंसविलासिन्यः प्रालेयशिशिराङ्गिकाः । भान्ति कान्ताकुमुद्वत्यो लोललोचनषट्पदाः
धम्मिल्लतिमिरोल्लासा यत् प्रपाण्डुपयोधराः । रामारजन्यो राजन्ते तन् मौर्ख्येन्दुविजृम्भितम्
आपातमात्रमधुरत्वम् अनर्थवत्त्वम् आद्यन्तवत्त्वम् अखिलस्थितिभङ्गुरत्वम् । अज्ञानशाखिन इति प्रसृतानि राम नानाकृतीनि विपुलानि फलान्य् अमूनि
यन् मुक्तावलिता रत्नभूषिता भान्ति योषितः । मदेन्दाव् उदिते क्षुब्धकामक्षीरार्णवोर्मयः
सौवर्णाम्भोजकोशस्थलोलालिपटलश्रियम् । धारयन्ति दृशस् स्त्रीणां कपोलदलदोलिताः
उद्यानवनषण्डेषु भूमौ कृतपदा मधौ । हृद्यास् सुमनसो भान्ति हासा इव मनोभुवः
क्रव्यादगृध्रगोमायुकौलेयकवलाङ्गिकाः । स्त्रियस् समुपमीयन्ते चन्द्रचन्दनपङ्कजैः
सौवर्णकलशाम्भोजकोरकोत्तुङ्गलिङ्गवत् । दृश्यते स्त्रीस्तनश्रेणी रक्तप्रतिसमुद्गिका
रसायनेन्दुनिष्ष्यन्दमधुबिम्बासवद्रवैः । ओष्ठाभिधो मांसलवो लालाक्त उपमीयते
शल्मल्यष्ठीलिकाकारा भुजाः क्रूरास्थिशङ्कवः । बाहूबाहु लताशब्दैर् वर्ण्यन्ते कविभिश् शुभैः
कदलीस्तम्भसम्भारसुन्दरी सुन्दरीरता । ऊरुशोभोदितानङ्गतोरणश्रीर् विराजते
आपातमात्रमधुरा मध्ये द्वन्द्वानुपातिनी । शीघ्रावसानविरसा लक्ष्मीर् अप्य् अभिवाञ्छ्यते