देहदेहवतोर् ज्ञानाद् यथाभूतैतयोस् स्थितिः । सत्तासत्तात्मिकोदेति दीपाद् इव पदार्थयोः
असम्यग्ज्ञानिनो ये हि स्वावर्तपरिवर्तनैः । अन्तश्शून्यास् स्फुरन्तीह ते मोहार्जुनवायवः
अपर्यालोचितात्मार्थम् अपरामृष्टसंविदः । स्पन्दन्ते वेष्टितोन्मुक्ततृणवन् मूढबुद्धयः
अनास्वादितचित्तत्त्वं जडास् सूत्रैस् स्ववायुभिः । यन्त्रवच् चोदिताक्रान्ता नटन्ति प्रस्फुरन्ति च
तृणकाष्ठादिकं सर्वम् आहरन्ति त्यजन्ति च । सशब्दस्पर्शरूपाद्यास् तरङ्गतरलाङ्गकाः
जडास् सन्तस् स्फुरद्रूपा भृशं स्फाररसारवाः । सविहारागमापाया महौघा इव दुर्धियः
सर्वेषाम् एव चैतेषां स्थितैवैषा चिद् अव्यया । किं त्व् अबोधवशाद् अस्याः परां कृपणतां गताः
श्वाससन्ततयो ह्य् अज्ञाल् लोहकारदृतेर् इव । स्पन्दमात्रार्थम् एवाशु दृश्यन्ते नार्थकारिणः
तर्जनोद्गर्जनं मूढाद् धनुर्दण्डगुणाद् इव । श्रूयते मारणायैव चिद्बोधपरिवर्जितम्
फललाभो ऽपि यो मूढात् तद् अरण्यतरोर् इव । तस्मिन् विश्रमणं यत् तच् छिलाफलहके यथा
तेन यस् सङ्गमस् स स्यात् स्थाणुनापि हि जङ्गले । तदर्थं यत् कृतं किञ्चित् तद् व्योम लगुडैर् हतम्
तस्मिन् यद् अधमे दत्तं तत् त्यक्तं क्लिन्नकर्दमे । तेन सार्धं कथा यास् तत् कौलेयाह्वानम् अध्वरे
अज्ञत्वम् आपदां निष्ठा का हि नापद् अजानतः । इयं संसारसरणिर् वहत्य् अज्ञप्रसादतः
अज्ञस्योग्राणि दुःखानि सुखान्य् अपि दृढानि च । पुनः पुनः प्रवर्तन्ते युगं प्रत्य् अचला इव
शरीरधनदारादाव् आस्थां समनुबध्नतः । इदं दुर्दुःखम् अज्ञस्य न कदाचन शाम्यति
अनात्मनि शवे देहे आत्मभावम् उपेयुषः । असद्बोधमयी माया कथं नाम विनश्यति
दुर्भावखर्वितधियो वस्तुन्य् अन्धस्य दुर्मतेः । अवस्तुनि सनेत्रस्य लुठतश् च पदे पदे
विषम् उत्पद्यते चन्द्राद् आमोदः कुसुमाद् इव । कण्टकश् चैव पयसो दूर्वाङ्कुर इव स्थलात्
देहशल्मलिभोगिन्यो मनोमातङ्गशृङ्खलाः । अज्ञस्याशाः प्रसूयन्ते सुवृष्टेष्व् इव शालयः
नरकश्रीर् अनात्मज्ञं दुष्कृतव्यालपालिता । परिपालयति प्रीता मयूरी वारिदं यथा
नेत्रलोलालिनीलोला स्फुरिताधरपल्लवा । मूर्खार्थम् एव विकसत्य् अङ्गनाविषवल्लरी
अज्ञवारिधिहृद्भूमाव् एव वेपथुपल्लवः । वर्धते ऽपगतच्छायो रागविद्रुमदुर्द्रुमः
तनुच्छदलसद्धूमश् शस्त्रज्वालो भटोल्मुकः । ज्वलति द्वेषदावो ऽज्ञहृन्मरौ कोपतापदः
अज्ञमात्सर्यसरसि परापवदनच्छदा । ईर्ष्याकमलिनी चिन्ताषट्पदी विकसत्य् अलम्
प्रतिजन्म प्रकृष्टोग्रदुःखकल्लोलसम्भ्रमः । जडम् एव समभ्येति पुनर्मरणवाडवः
जन्मबाल्यं ध्रुवं याति यौवनं युवता जराम् । जरा मरणम् अभ्येति मूढस्यैव पुनः पुनः
जगज्जीर्णारघट्टे ऽस्मिन् रज्ज्वा संसृतिरूपया । मज्जनोन्मज्जनैर् अज्ञा यन्त्रे शकलतां गताः
यद् एव गोष्पदादूरं ज्ञधियः पेलवं जगत् । तद् एवापारपर्यन्तम् अगाधम् अमहात्मनः
धियो ऽदृश इवाज्ञस्य चिद्व्योमोदरकोटरात् । न प्रयान्त्य् अपरं पारं विहङ्ग्यः पञ्जराद् इव
भावमात्रपरावृत्त्या वासनामात्रनाभयः । स्पष्टीकर्तुं न शक्यन्ते जन्मचक्रस्य नेमयः