सर्वम् आत्मैव सर्वत्र सर्वदा भाविताकृतिः । इदम् अन्यद् इदं चान्यद् इत्य् असत्कलनाः कुतः
को ऽभूवं प्राग् अहं तादृक् तृष्णानिगडयन्त्रितः । अन्तरात्मानम् एवेति विहसामि विकासवान्
आम् इदानीं स्मृतं सम्यङ् मयैष स किलास्म्य् अजः । यस् त्वद्वागमृतापूरस्नानेनायम् अहं स्थितः
अहो नु विततां भूमिम् अधिरूढो ऽस्मि पावनीम् । इहस्थ एव यत्रार्को नः पातालम् इवास्थितः
मह्यं सत्ताम् उपेताय व्यपेताय भवार्णवात् । नमो नित्यनमस्याय जयाम्य् आत्मात्मनात्मनि
अनुभववशतो हृदब्जकोशे स्फुटम् अलितां समुपागतेन नाथ । तव वरवचसेह वीतशोकां चिरम् उदितां स्वदशाम् उपागतो ऽस्मि
भूय एव महाबाहो शृणु मे परमं वचः । यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया
बोधम् अभ्युपगम्यापि शृणु बोधविवृद्धये । भवेद् अल्पप्रबुद्धानाम् अपि निर्दुःखता यथा
यस्याज्ञातात्मनो ऽज्ञस्य देह एवात्मभावना । उदितार्तिं रुषेवाक्षरिपवो ऽभिभवन्ति तम्
यस्य ज्ञातात्मनो ज्ञस्य सत्ये स्वात्मनि संस्थितिः । तुष्ट्येव चाक्षसुहृदो न घ्नन्ति तम् अनिन्दितम्
परार्थं स्फुरतो यस्य न स्तुतिर् निन्दनाद् ऋते । स देही देहदुःखौघम् आदत्ते केन हेतुना
नात्मा शरीरसम्बद्धश् शरीरम् अपि नात्मनि । मिथो विलक्षणे एते प्रकाशतमसी यथा
सर्वैर् भावविकारैस् तु नित्यमुक्तो ऽस्त्य् अलेपकः । नात्मास्तम् एति भगवान् न चोदेति सदोदितः
जडस्याज्ञस्य तुच्छस्य कृतघ्नस्य विनाशिनः । शरीरकोपलस्यास्य यद् भवत्य् अस्तु तत् तथा
न चास्य किञ्चिद् भवति पृथग् आत्मन्य् अवेक्षिते । जडस्यासत्स्वरूपस्य किम् इवाङ्गोपपद्यते
निपुणायावबोधाय यत् प्रोक्तं तत् पुनः पुनः । भङ्गिभिः प्रविचित्राभी राघवेदं प्रबोध्यते
यदि देहगुणान् आत्मा गृह्णाति परमार्थतः । नादत्ते तत् कथं तस्माज् जडतां शवरूपिणः
यदि वात्मगुणान् देहो गृह्णाति परमार्थतः । नादत्ते तत् कथं चैत्तं चिन्मयत्वं सदोदितम्
ययोर् एकपरिज्ञाने जडतैवापरे स्थिता । तयोः कीदृग्विधा ब्रूत समानसुखदुःखता
यौ समौ समकर्माणौ न कदाचन तौ कथम् । द्वाव् अप्य् असन्ताव् अन्योऽन्यं कथं सम्बन्धम् एष्यतः
कथं स्थूलो ऽणुरूपस् स्याद् अणुस् स्थूलः कथं भवेत् । एकोदये द्वितीयस्य न सत्ता दिनरात्रिवत्
ज्ञानं नाज्ञानताम् एति च्छाया नायाति तापताम् । सद् ब्रह्म नासद् भवति विचित्रास्व् अपि दृष्टिषु
मनाग् अपि न संश्लेषस् सर्वगस्यापि देहिनः । देहेन देहगस्यापि कमलस्येव वारिणा
मनाग् अपि न संश्लेषो ब्रह्मणो देहसत्तया । तद्गतस्याप्य् अतद्वृत्तेर् अम्बरस्येव वायुना
भवत्य् आत्मनि नो किञ्चिन् नासतो देहकस्य च । तद् राघव मुधैवैष सुखदुःखभ्रमः कुतः
जरामरणम् आपच् च सुखदुःखे भवाभवौ । मनाग् अपि न सन्तीह निर्वाणो निर्वृतो भव
स्थितो देहतयात्युच्चैः पातोत्पातमयो भ्रमः । दृश्यते केवलं ब्रह्मण्य् अप्सु वीचितया यथा
आत्मसत्तोपजीवित्वाद् आत्मा सम्भवतीह हि । देहयन्त्रं पयस्सत्तामात्राद् ऊर्मिर् इवोत्थितम्
आधारस्पन्दनेनाङ्ग यथा क्षोभभवाभवाः । सूर्यादेः प्रतिबिम्बस्य तथा देहेन देहिनः
सम्यग्दृष्टे यथाभूते वस्तुन्य् आत्मनि जायते । स्थितिर् देहमयो ऽज्ञानविभ्रमो लयम् एति च