रागद्वेषविकाराणां स्वरूपं चेन् न भाव्यते । ते तु सन्तो ऽप्य् असद्रूपास् सेविता अप्य् असेविताः
यस्य नाहङ्कृतो भावो यस्य बुद्धिर् न लिप्यते । हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते
यन् नास्ति तस्य सद्भावप्रतिपत्तिर् उदाहृता । मायैव सा परिज्ञानाद् एव नश्यत्य् असंशयम्
निस्स्नेहदीपवच् छान्तो यस्यान्तर् वासनारसः । तेन चित्रं कृतं नैव जितं ज्ञेनापि कारिणा
यस्यानुपादेयम् इदं समस्तं पदार्थजातं सदसद्दशासु । न दुःखदाहाय सुखाय नैव स मुक्त एवेह सजीव एव
मनो बुद्धिर् अहङ्कार इन्द्रियादि तथानघ । अचेत्यचिन्मयं सर्वं क्व ते जीवादयस् स्थिताः
एकेनैवात्मना दत्ता नानाता या महात्मना । विद्धि तां त्वम् अनानातां हेम्नः कटकताम् इव
यावद् अज्ञानसम्मोहस् तावत् संसारचित्तकम् । अज्ञानसङ्क्षये जाते क्व चेत्यं चित्तकं च वा
अध्यात्मविद्याभ्यसनाज् जाड्यम् एति क्षयं तथा । हुताशसेवनाद् अन्तर्जाड्यं जलकृतं यथा
भोगतृष्णाविषावेशो यदैवोपशमं गतः । तदैव नष्टम् अज्ञानम् आन्ध्यं ध्वान्तक्षयाद् इव
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयते भावितेनान्तश् शरदा मिहिका यथा
मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् । विलीने ऽम्बुधरे व्योम्नि जाड्यं शाम्यत्य् अविघ्नतः
अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः । हारमुक्तासमावेशश् छिन्ने तन्ताव् इवानघ
न घनाघविघाताय शास्त्रार्थं भावयन्ति ये । क्रिमिकीटत्वभोगाय चेतसस् सम्मिलन्ति ते
तव तामरसाकारकान्तलोचन लोलता । शान्ता मौर्ख्यकृता वातचलता सरसो यथा
स्थिरताम् उपयातो ऽसि भावाभावविवर्जिते । पदे परमविस्तारे नभसीव प्रभञ्जनः
मन्ये मद्वचनैर् बोधम् आयातो ऽसि रघूद्वह । वितताज्ञाननिद्रातो निद्रातः पटहैर् इव
सामान्ये ऽपि लगन्त्य् एव मन्ये कुलगुरोर् गिरः । अत्युदारमतौ राम न लगन्ति कथं त्वयि
यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा । तद्वचो ऽन्तर् विशत्य् उच्चैस् तप्ते क्षेत्रे यथा पयः
वयम् इह हि महानुभाव नित्यं कुलगुरवो गुरवो रघूद्वहानाम् । तदुदितम् इदम् आशु कार्यम् आर्य स्फुटवचनं हृदि हारवत् त्वयेति
अहो बत महच् चित्रं भवद्वाक्यार्थभावनात् । शान्तं जगज्जालम् इदम् अग्रस्थम् अपि नाथ मे
पराम् अन्तः प्रयातो ऽस्मि स्वयम् आत्मनि निर्वृतिम् । दीर्घावग्रहसन्तप्तं वृष्ट्येव वसुधातलम्
शाम्यामि शीतलाकारस् सुखं तिष्ठामि केवलम् । प्रसादम् उपयातो ऽस्मि सरो निर्वारणं यथा
सम्यक् प्रसन्नम् अखिलं दिङ्मण्डलम् इदं मुने । यथाभूतं प्रपश्यामि निर्नीहारम् इवाधुना
जातो ऽस्मि गतसन्देहश् शान्ताशामृगतृष्णिकः । रजोनीहारनिर्मुक्तो वृष्टजङ्गलशीतलः
आत्मनैवान्तर् आनन्दं तं प्राप्तो ऽस्म्य् अन्तवर्जितम् । रसायनरसास्वादो यत्र नाथ तृणायते
अद्यायं प्रकृतिस्थो ऽस्मि स्वस्थो ऽस्मि मुदितो ऽस्मि च । लोकारामो ऽस्मि रामो ऽस्मि नमो मह्यं नमो ऽस्तु ते
ते संशयास् ताः कलनास् सर्वम् अस्तङ्गतं मम । रात्रिवेतालसञ्चारः प्रभात इव भास्वरे
निर्मले हृदि विस्तीर्णे सपद्मे हिमशीतले । मतिर् निर्वृतिम् आयाता सारसी सरसीव मे
कलङ्क आत्मनः कस्मात् कथं वेत्यादिसंशयः । नूनं निर्मूलतां यातो ममार्काग्रे यथा तमः