एहि पुत्रेति माम् उक्त्वा स स्वाब्जस्योत्तरे दले । शुक्ले ऽभ्र इव शीतांशुं योजयाम् आस पाणिना
मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् । माम् उवाच पिता ब्रह्मा स हंसस् सारसं यथा
मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् । अज्ञानम् अभ्याविशतु शशश् शशधरं यथा
इति तेनाशु शप्तस् सन् विचारसमनन्तरम् । अहं विस्मृतवान् सर्वं स्वरूपम् अमलं द्विजः
अथाहं दीनतां यातस् स्थितस् सम्बुद्धया धिया । दुःखशोकाभिसन्तप्तो जातो जन इवाधमः
कष्टं संसारनामायं दोषः कथम् इवागतः । इति चिन्तितवान् अन्तस् तूष्णीम् एव व्यवस्थितः
अथाभ्यधात् स मां तातः पुत्र किं दुःखवान् असि । दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि
ततः पृष्टस् स भगवान् मया सकललोककृत् । हैमपद्मदलस्थेन संसारव्याधिभेषजम्
कथं नाम महद् दुःखम् अयं संसार आगतः । कथं च क्षीयते जन्तोर् इति पृष्टेन तेन मे
तज् ज्ञानं सुबहु प्रोक्तं यज् ज्ञात्वा पावनं परम् । अहं पितुर् अपि प्रायः किलाधिक इव स्थितः
ततो विदितवेद्यं मां निजप्रकृतिम् आस्थितम् । स उवाच जगत्कर्ता वक्ता सकलकारणम्
शापेनाज्ञपदं नीत्वा पृच्छकस् त्वं मया कृतः । पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये
इदानीं शान्तशापस् त्वं परं बोधम् उपागतः । संस्थितो ऽहम् इवैकात्मा कनकं कनकाद् इव
गच्छेदानीं महीपीठे जम्बुद्वीपान्तरस्थितम् । साधो भारतवर्षं त्वं लोकानुग्रहहेतुना
तत्र क्रियाकाण्डपरास् त्वया पुत्र महाधियः । उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिनः
विरक्तचित्ताश् च तथा महाप्रज्ञा विरागिणः । उपदेश्यास् त्वया साधो ज्ञानेनानन्ददायिना
इति तेन नियुक्तो ऽहं पित्रा कमलयोनिना । इह राघव तिष्ठामि यावद् भूतपरम्परा
कर्तव्यम् अस्ति मम नेह हि किञ्चिद् एव स्थातव्यम् इत्य् अभिमना भुवि संस्थितो ऽस्मि । संशान्तया सततसुप्तधियेव वृत्त्या कार्यं करोमि न च किञ्चिद् अहं करोमि
एतत् ते कथितं सर्वं ज्ञानावतरणं भुवि । मया स्वम् ईहितं चैव कमलोद्भवकल्पितम्
तद् इदं परमं ज्ञानं श्रोतुम् अद्य तवानघ । भृशम् उत्कण्ठितं चेतो महतस् सुकृतोदयात्
कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे । सर्गाद् अनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः
परमे ब्रह्मणि ब्रह्मा स्वभाववशतस् स्वयम् । जातस् स्पन्दमयो नित्यम् ऊर्मिर् अम्बुनिधाव् इव
सृष्ट्वैवम् आततं सर्गं सर्गस्य सकला गतीः । भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः
सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते । मोहम् आलोक्य लोकानां कारुण्यम् अगमत् प्रभुः
ततो माम् ईश्वरस् सृष्ट्वा ज्ञानेनायोज्य चासकृत् । विससर्ज महीपीठे लोकस्याज्ञानशान्तये
यथाहं प्रहितस् तेन तथान्ये ऽपि महर्षयः । सनत्कुमारप्रमुखा नारदाद्याश् च भूरिशः
क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च । मनोमहामयोत्तब्धम् उद्धर्तुं लोकम् ईरिताः
महर्षिभिस् ततस् तैस् तु क्षीणे कृतयुगे पुरा । क्रमात् क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते
क्रियाक्रमविधानार्थं मर्यादानियमाय च । पृथग्देशविभागेन भूपालाः परिकल्पिताः
बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ । धर्मकामार्थसिद्ध्यर्थं कल्पितान्य् उदितान्य् अथ