मनसो नेन्द्रियं भिन्नं पृथग् देहश् च नेन्द्रियात् । न शरीराज् जगद् भिन्नं जगतो नान्यद् अस्ति हि
एवं प्रवर्तितम् इव महाचक्रम् इदं चिरम् । न च प्रवर्तितं किञ्चिन् न च शीघ्रं च नो चिरम्
नानेवेदम् अनानैव सर्वम् एकम् अखण्डितम् । विद्यते व्योमनि व्योम नकस्मिंश्चिन् नकिञ्चन
शून्ये शून्यं समुच्छूनं ब्रह्म ब्रह्मणि बृंहितम् । सत्यं विजृम्भते सत्ये पूर्णे पूर्णम् अवस्थितम्
रूपालोकमनस्कारान् कुर्वन्न् अपि न किञ्चन । ज्ञः करोत्य् अनुपादेयान् उपादेये हि कर्तृता
यद् उपादेयबुद्ध्यात्तं तद् दुःखाय सुखाय वा । भावाभावैर् अनादेयम् अकर्तृ सुखदुःखयोः
यथा नानाप्य् अनानैव खं खे वारीव वार्गणः । सार्थको ऽप्य् अतिशून्यात्मा तथात्मजगतोः क्रमः
अन्तर् व्योमामलो बाह्ये सम्यगाचारचञ्चुरः । हर्षामर्षविकारेषु काष्ठलोष्टसमस्थितिः
य एवातितरां शत्रुर् मत्सरी मारणोद्यतः । तम् एवाकृत्रिमं मित्रं यः पश्यति स पश्यति
समूलकाषं कषति नदीवेग इव द्रुमम् । यस् सौहृदं मत्सरं च स हर्षामर्षदोषहा
रागद्वेषविकाराणां स्वरूपं चेन् न भाव्यते । ते तु सन्तो ऽप्य् असद्रूपास् सेविता अप्य् असेविताः
यस्य नाहङ्कृतो भावो यस्य बुद्धिर् न लिप्यते । हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते
यन् नास्ति तस्य सद्भावप्रतिपत्तिर् उदाहृता । मायैव सा परिज्ञानाद् एव नश्यत्य् असंशयम्
निस्स्नेहदीपवच् छान्तो यस्यान्तर् वासनारसः । तेन चित्रं कृतं नैव जितं ज्ञेनापि कारिणा
यस्यानुपादेयम् इदं समस्तं पदार्थजातं सदसद्दशासु । न दुःखदाहाय सुखाय नैव स मुक्त एवेह सजीव एव
मनो बुद्धिर् अहङ्कार इन्द्रियादि तथानघ । अचेत्यचिन्मयं सर्वं क्व ते जीवादयस् स्थिताः
एकेनैवात्मना दत्ता नानाता या महात्मना । विद्धि तां त्वम् अनानातां हेम्नः कटकताम् इव
यावद् अज्ञानसम्मोहस् तावत् संसारचित्तकम् । अज्ञानसङ्क्षये जाते क्व चेत्यं चित्तकं च वा
अध्यात्मविद्याभ्यसनाज् जाड्यम् एति क्षयं तथा । हुताशसेवनाद् अन्तर्जाड्यं जलकृतं यथा
भोगतृष्णाविषावेशो यदैवोपशमं गतः । तदैव नष्टम् अज्ञानम् आन्ध्यं ध्वान्तक्षयाद् इव
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयते भावितेनान्तश् शरदा मिहिका यथा
मौर्ख्ये क्षीणे क्षतं विद्धि चित्तं राम सबान्धवम् । विलीने ऽम्बुधरे व्योम्नि जाड्यं शाम्यत्य् अविघ्नतः
अचित्तत्वं गते चित्ते क्षीयते वासनाभ्रमः । हारमुक्तासमावेशश् छिन्ने तन्ताव् इवानघ
न घनाघविघाताय शास्त्रार्थं भावयन्ति ये । क्रिमिकीटत्वभोगाय चेतसस् सम्मिलन्ति ते
तव तामरसाकारकान्तलोचन लोलता । शान्ता मौर्ख्यकृता वातचलता सरसो यथा
स्थिरताम् उपयातो ऽसि भावाभावविवर्जिते । पदे परमविस्तारे नभसीव प्रभञ्जनः
मन्ये मद्वचनैर् बोधम् आयातो ऽसि रघूद्वह । वितताज्ञाननिद्रातो निद्रातः पटहैर् इव
सामान्ये ऽपि लगन्त्य् एव मन्ये कुलगुरोर् गिरः । अत्युदारमतौ राम न लगन्ति कथं त्वयि
यत्रोपादेयवाक्यत्वं भावितं स्वेन चेतसा । तद्वचो ऽन्तर् विशत्य् उच्चैस् तप्ते क्षेत्रे यथा पयः
वयम् इह हि महानुभाव नित्यं कुलगुरवो गुरवो रघूद्वहानाम् । तदुदितम् इदम् आशु कार्यम् आर्य स्फुटवचनं हृदि हारवत् त्वयेति