विवेकविशदं चेतस् सत्त्वम् इत्य् अभिधीयते । भूयः फलति नो मोहं दग्धं बीजम् इवाङ्कुरम्
या वासना विमूढान्तर् पुनर्जननधर्मिणी । चित्तशब्दाभिधा सोक्ता विपर्यस्यति बोधतः
प्राप्तप्राप्यो भवान् राम सत्त्वभावम् उपागतम् । चित्तं ज्ञानाग्निना दग्धं न ते भूयः प्ररोहति
संरोहतीषुणा विद्धं तथा परशुनाग्निना । न हि ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः
ब्रह्मबृंहैव हि जगज् जगच् च ब्रह्मबृंहणात् । विद्यते नानयोर् भेदश् चिद्घनब्रह्मणोर् इह
चिदन्तर् अस्ति त्रिजगन् मरिचे तिक्तता यथा । नातश् चिज्जगती भिन्ने तस्मात् सदसती मुधा
अचिन्मयत्वान् नासि त्वं खात्मा किम् इव रोदिषि । अचिन्मयत्वाज् जगताम् अभावे कलनाः कुतः
चिन्मयश् चेद् भवान् सर्वं तच् चित्त्वं प्रविचारय । शुद्धसत्त्वम् अनाद्यन्तं तत्राङ्ग कलनाः कुतः
चिदात्मासि निरंशो ऽसि पारावारविवर्जितः । रूपं स्मर निजं स्फारं मास्मृत्या सम्मितो भव
तां स्वसत्तां गतस् सर्वम् असर्वं वा भवोदयी । तादृग्रूपो ऽसि शान्तो ऽसि चिद् असि ब्रह्मरूप्य् असि
चिच्छिलोदरम् एवासि नासि नानस्य् अथोम् असि । यो ऽसि सो ऽसि न सो ऽसीव सद् अस्य् असद् असि स्वभाः
यः पदार्थविशेषो ऽन्तर् न त्वं नान्यो न सो ऽस्ति ते । तद् अस्य् अतद् असि स्वच्छचिद्घनात्मन् नमो ऽस्तु ते
आद्यन्तवर्जितविशालशिलान्तरालसम्पीनचिद्घनवपुर् गगनामलस् त्वम् । स्वस्थो भवाजरढपल्लवकोशलेखालीलास्थिताखिलजगज्जलधे जयस् ते
भावि भूरितरङ्गाणां पयो वृन्दम् इवान्तरे । या चिद् वहत्य् अनन्तानि जगन्त्य् अनघ सा भवान्
भव भावनया मुक्तो भावाभावविवर्जितः । चिदात्मन् संस्थिताः क्वेव वद ते वासनादयः
जीवो ऽयं वासनादीदम् इति चित् कचति स्वतः । इतरोक्त्यर्थयोर् अत्र कः प्रसङ्गो ऽथ वर्ण्यताम्
महातरलगम्भीरभासुरात्मंश् चिदर्णव । रामाभिधो ऽसि स्तिमितस् समस् सोम्यो ऽसि सोमवत्
यथा न भिन्नम् अनलाद् औष्ण्यं सौगन्ध्यम् अम्बुजात् । कार्ष्ण्यं कज्जलतश् शौक्ल्यं हिमान् माधुर्यम् इक्षुतः
आलोकश् च प्रकाशाङ्गाद् अनुभूतिस् तथा चितेः । जलाद् वीचिश् चिदात्मन् भोश् चित्स्वभावात् तथा जगत्
चितो न भिन्नो ऽनुभवो भिन्नो नानुभवाद् अहम् । न मत्तो भिद्यते जीवो न जीवाद् भिद्यते मनः
मनसो नेन्द्रियं भिन्नं पृथग् देहश् च नेन्द्रियात् । न शरीराज् जगद् भिन्नं जगतो नान्यद् अस्ति हि
एवं प्रवर्तितम् इव महाचक्रम् इदं चिरम् । न च प्रवर्तितं किञ्चिन् न च शीघ्रं च नो चिरम्
नानेवेदम् अनानैव सर्वम् एकम् अखण्डितम् । विद्यते व्योमनि व्योम नकस्मिंश्चिन् नकिञ्चन
शून्ये शून्यं समुच्छूनं ब्रह्म ब्रह्मणि बृंहितम् । सत्यं विजृम्भते सत्ये पूर्णे पूर्णम् अवस्थितम्
रूपालोकमनस्कारान् कुर्वन्न् अपि न किञ्चन । ज्ञः करोत्य् अनुपादेयान् उपादेये हि कर्तृता
यद् उपादेयबुद्ध्यात्तं तद् दुःखाय सुखाय वा । भावाभावैर् अनादेयम् अकर्तृ सुखदुःखयोः
यथा नानाप्य् अनानैव खं खे वारीव वार्गणः । सार्थको ऽप्य् अतिशून्यात्मा तथात्मजगतोः क्रमः
अन्तर् व्योमामलो बाह्ये सम्यगाचारचञ्चुरः । हर्षामर्षविकारेषु काष्ठलोष्टसमस्थितिः
य एवातितरां शत्रुर् मत्सरी मारणोद्यतः । तम् एवाकृत्रिमं मित्रं यः पश्यति स पश्यति
समूलकाषं कषति नदीवेग इव द्रुमम् । यस् सौहृदं मत्सरं च स हर्षामर्षदोषहा