वसिष्ठस्यानने रामश् शनैर् दृष्टिम् अपातयत् । भ्रमन्तीम् अम्बरे वातः फुल्लपद्म इवालिनीम्
मुनिस् त्व् अनुज्झितेनाथ तेनैव रघुनन्दनम् । क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम्
कच्चित् स्मरसि यत् प्रोक्तं ह्यो मया रघुनन्दन । वाक्यम् अत्यन्तगुर्वर्थं परमार्थावबोधकम्
इदानीम् अवबोधार्थम् अन्यच् च रिपुमर्दन । उच्यमानं मयेदं त्वं शृणु शाश्वतसिद्धये
वैराग्याभ्यासवशतस् तथा तत्त्वावलोकनात् । संसारात् तीर्यते तेन तेष्व् एवाभ्यासम् आहर
सम्यक् तत्त्वावबोधेन दुर्बोधे क्षयम् आगते । गलिते वासनावेशे विशोकं प्राप्यते पदम्
दिक्कालाद्यनवच्छिन्नम् अदृष्टोभयकोटिकम् । एकं ब्रह्मैव हि जगत् स्थितं द्वित्वम् इवागतम्
सर्वभावानवच्छिन्नं यत्र ब्रह्मैव विद्यते । शान्तं समसमाभासं तत्रान्यत् तत् कथं भवेत्
इति मत्वाहम् इत्य् अन्तर् मुक्त्वा मुक्तवपुर् महान् । एकरूपः प्रशान्तात्मा मौनी स्वात्ममयो भव
नास्ति चित्तं न चाविद्या न मनो न च जीवकः । एताश् च कलना राम कृता ब्रह्मण एव ताः
यास् सम्पदो याश् च दृशो याश् चितो याश् चिदेषणाः । ब्रह्मैव तद् अनाद्यन्तम् अब्रह्मेह न विद्यते
पाताले भूतले स्वर्गे त्रिनेत्रान्तं तृणादि यत् । दृश्यते तत् परं ब्रह्म चिद्रूपं नान्यद् अस्ति हि
उपेक्ष्यं हेयम् आदेयं बन्धवो विभवा वपुः । ब्रह्मैव विगताद्यन्तम् अब्धिवत् प्रविजृम्भते
यावद् अज्ञानकलना यावद् अब्रह्मवासना । यावद् आस्था जगज्जाले तावच् चित्तादिकल्पना
देहे यावद् अहम्भावो दृश्ये ऽस्मिन् यावद् आत्मता । यावन् ममेदम् इत्य् आस्था तावच् चित्तादिविभ्रमः
यावन् नोदितम् उच्चैस्त्वं सज्जनासङ्गशृङ्गतः । यावन् मौर्ख्यं न सङ्क्षीणं तावच् चित्तादिनिम्नता
यावच् छिथिलतां यातं नेदं भुवनभावनम् । सम्यग्दर्शनशक्त्यान्तस् तावच् चित्तोदयस् स्फुटः
यावद् अज्ञत्वम् अन्धत्वं वैवश्यं विषयाशया । मूर्छामोहसमुच्छ्रायस् तावच् चित्तादिकल्पना
यावद् आशाविषामोदः परिस्फुरति हृद्वने । प्रविचारचकोरो ऽत्र न तावत् प्रविशत्य् अलम्
भोगेष्व् अनास्थमनसश् शीतलामलनिर्वृतेः । छिन्नाशापाशजालस्य क्षीयते चित्तविभ्रमः
तृष्णामोहपरित्यागान् नित्यशीतलसंविदः । पुंसस् संशान्तचित्तस्य प्रबुद्धस्य क्व चित्तभूः
असंस्तुतम् इवानास्थम् अवस्तु परिपश्यतः । दूरस्थम् इव देहं स्वम् असन्तं चित्तभूः कुतः
भावितानन्तचित्तत्त्वरूपरूपान्तरात्मनः । स्वाङ्गांशलीनजगतश् शान्तो जीवादिविभ्रमः
असम्यग्दर्शने शान्ते मिथ्याभ्रमभरात्मनि । उदिते परमादित्ये परमार्थैकदर्शने
अपुनर्दर्शनायैव दग्धं संशुष्कपर्णवत् । चित्तं विगलितं विद्धि वह्नौ घृतलवं यथा
जीवन्मुक्ता महात्मानो ये परावरदर्शिनः । तेषां या चित्तपदवी सा सत्त्वम् इति कथ्यते
जीवन्मुक्तशरीरेषु वासना व्यवहारिणी । न चित्तनाम्नी भवति सा हि सत्त्वपदं गता
निश्चेतसो हि तत्त्वज्ञा नित्यं सत्त्वपदे स्थिताः । लीलया प्रभ्रमन्तीह सत्त्वसंस्थितिहेलया
शान्ता व्यवहरन्तो ऽपि सत्त्वस्थास् संयतेन्द्रियाः । नित्यं पश्यन्ति चिज्ज्योतिर् न द्वैतैक्ये न वासनाः
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् । जुह्वतो ऽन्तर् विचेष्टन्ते मूढवच् छीतलाशयाः