ततः प्रहरमात्रेण निद्राम् आमुद्रिताननाः । तत्स्वप्नसुन्दरीम् ईयुः पद्मा इव दिनार्थिनः
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयम् एव तत् । वासिष्ठम् उपदेशं ते चिन्तयाम् आसुर् अक्षतम्
प्रहरस्यार्धमात्रं तु तत आमुद्रितेक्षणाः । तत्स्वप्नाम् आययुर् निद्रां क्षणाद् विद्रावितश्रमाम्
इति शुभमनसां विवेकभाजाम् अधिगतसारतयोदिताशयानाम् । अभजत विरतिं तदा त्रियामा मलिननिशाकरवक्त्रतां जगाम
ततः खिन्नेन्दुवदना पर्याकुलतमःपटा । क्षीयमाणा बभौ श्यामा विवेकान्तेव वासना
पूर्वे ध्वस्ततयालोकाद् दृश्यमानो ऽपरे ऽचले । शेफालिकावतंसाभां तारकानिकरो दधौ
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः । ज्योत्स्नाकवलनालोलो ववौ प्राभातिको ऽनिलः
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैस् सह । ययुर् वन्दितसन्ध्यास् ते पुण्यं वासिष्ठम् आश्रमम्
तत्र वन्दितसन्ध्यस्य निर्गतस्याग्निसद्मनः । मुनेर् ववन्दिरे पादाव् आदौ दत्त्वार्घ्यसन्ततिम्
क्षणात् तत् सदनं मौनं मुनिब्राह्मणराजभिः । हस्त्यश्वरथयानैश् च क्षणान् नीरन्ध्रतां ययौ
अथासौ मुनिशार्दूलस् तयैव सह सेनया । गृहं दाशरथं कल्ये रामाद्यनुगतो ययौ
तत्रैनं पूर्वसम्बुद्धः कृतसन्ध्यो महीपतिः । दूरम् अग्रे विनिर्गत्य पूजयाम् आस सादरम्
पुष्पमुक्तामणिव्रातैर् भूयो ऽप्य् अधिकभूषिताम् । सभां प्रविश्य ते सर्वे विविशुर् विष्टरादिषु
अथैतस्मिन्न् अवसरे ह्यस्तनास् सर्व एव ते । श्रोतारस् समुपाजग्मुर् नभश्चरमहीचराः
विवेश सा सभा सोम्यं कृतान्योऽन्याभिवादना । बभौ समसमाभोगा शान्तवातेव पद्मिनी
यथाप्रदेशम् एवाशु निविष्टेषु यथासुखम् । तेषु तद्देशयोग्येषु विप्रर्षिमुनिराजसु
मृदुनि स्वागतरवे शनैश् शमम् उपागते । सभाकोणोपविष्टेषु शान्तशब्देषु वन्दिषु
त्वरयेवोदितेष्व् आशु श्रोतुम् अभ्यागतेष्व् इव । गवाक्षाद् इव जातेषु प्रविष्टेष्व् अर्करश्मिषु
सत्वरं प्रविशच्छ्रोतृहस्तस्पर्शवशोद्भवे । मुक्ताजालझणत्कार ओङ्कार इव शाम्यति
कुमारश् शङ्करस्येव कचो देवगुरोर् इव । प्रह्लाद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः
वसिष्ठस्यानने रामश् शनैर् दृष्टिम् अपातयत् । भ्रमन्तीम् अम्बरे वातः फुल्लपद्म इवालिनीम्
मुनिस् त्व् अनुज्झितेनाथ तेनैव रघुनन्दनम् । क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम्
कच्चित् स्मरसि यत् प्रोक्तं ह्यो मया रघुनन्दन । वाक्यम् अत्यन्तगुर्वर्थं परमार्थावबोधकम्
इदानीम् अवबोधार्थम् अन्यच् च रिपुमर्दन । उच्यमानं मयेदं त्वं शृणु शाश्वतसिद्धये
वैराग्याभ्यासवशतस् तथा तत्त्वावलोकनात् । संसारात् तीर्यते तेन तेष्व् एवाभ्यासम् आहर
सम्यक् तत्त्वावबोधेन दुर्बोधे क्षयम् आगते । गलिते वासनावेशे विशोकं प्राप्यते पदम्
दिक्कालाद्यनवच्छिन्नम् अदृष्टोभयकोटिकम् । एकं ब्रह्मैव हि जगत् स्थितं द्वित्वम् इवागतम्
सर्वभावानवच्छिन्नं यत्र ब्रह्मैव विद्यते । शान्तं समसमाभासं तत्रान्यत् तत् कथं भवेत्
इति मत्वाहम् इत्य् अन्तर् मुक्त्वा मुक्तवपुर् महान् । एकरूपः प्रशान्तात्मा मौनी स्वात्ममयो भव
नास्ति चित्तं न चाविद्या न मनो न च जीवकः । एताश् च कलना राम कृता ब्रह्मण एव ताः