विश्वामित्रेण सहितो वसिष्ठो गन्तुम् आश्रमम् । उत्तस्थाव् आसनाच् छ्रीमान् नमस्कृतनभश्चरः
दशरथप्रभृतयो राजानो मुनयस् तथा । यथानुरूपं वक्तारम् अनुगम्य चिरं मुनिम्
आपृच्छ्य केचिद् गगनं ययुः केचिद् वनान्तरम् । केचिद् राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव
वसिष्ठपादयोस् त्यक्त्वा पुष्पाञ्जलिम् अनाबिलम् । पौरैर् अनुगतो राजा प्रविवेश गृहान्तरम्
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः । अभ्यर्च्य चरणौ भक्ता आजग्मुर् नृपमन्दिरम्
सदनानि समासाद्य श्रोतारस् सर्व एव ते । सस्नुर् आनर्चुर् अप्य् आशु देवान् विप्रान् पितॄंस् तथा
यथाक्रमं च विप्राद्यैर् भृत्यान्तैश् च परिच्छदैः । समं बुभुजिरे भोज्यं वर्णधर्मक्रमोचितम्
अस्तङ्गते दिनकरे समं दिवसकर्मभिः । अभ्यागते रात्रिकरे समं रजनिकर्मभिः
स्थितास् तल्पेषु कौशेयशयनेष्व् आसनेषु च । भूचरा मुनिराजानो राजपुत्रा महर्षयः
संसारोत्तरणोपायं वसिष्ठवचनेरितम् । यथावद् एकाग्रधियश् चिन्तयाम् आसुर् आदृताः
ततः प्रहरमात्रेण निद्राम् आमुद्रिताननाः । तत्स्वप्नसुन्दरीम् ईयुः पद्मा इव दिनार्थिनः
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयम् एव तत् । वासिष्ठम् उपदेशं ते चिन्तयाम् आसुर् अक्षतम्
प्रहरस्यार्धमात्रं तु तत आमुद्रितेक्षणाः । तत्स्वप्नाम् आययुर् निद्रां क्षणाद् विद्रावितश्रमाम्
इति शुभमनसां विवेकभाजाम् अधिगतसारतयोदिताशयानाम् । अभजत विरतिं तदा त्रियामा मलिननिशाकरवक्त्रतां जगाम
ततः खिन्नेन्दुवदना पर्याकुलतमःपटा । क्षीयमाणा बभौ श्यामा विवेकान्तेव वासना
पूर्वे ध्वस्ततयालोकाद् दृश्यमानो ऽपरे ऽचले । शेफालिकावतंसाभां तारकानिकरो दधौ
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः । ज्योत्स्नाकवलनालोलो ववौ प्राभातिको ऽनिलः
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैस् सह । ययुर् वन्दितसन्ध्यास् ते पुण्यं वासिष्ठम् आश्रमम्
तत्र वन्दितसन्ध्यस्य निर्गतस्याग्निसद्मनः । मुनेर् ववन्दिरे पादाव् आदौ दत्त्वार्घ्यसन्ततिम्
क्षणात् तत् सदनं मौनं मुनिब्राह्मणराजभिः । हस्त्यश्वरथयानैश् च क्षणान् नीरन्ध्रतां ययौ
अथासौ मुनिशार्दूलस् तयैव सह सेनया । गृहं दाशरथं कल्ये रामाद्यनुगतो ययौ
तत्रैनं पूर्वसम्बुद्धः कृतसन्ध्यो महीपतिः । दूरम् अग्रे विनिर्गत्य पूजयाम् आस सादरम्
पुष्पमुक्तामणिव्रातैर् भूयो ऽप्य् अधिकभूषिताम् । सभां प्रविश्य ते सर्वे विविशुर् विष्टरादिषु
अथैतस्मिन्न् अवसरे ह्यस्तनास् सर्व एव ते । श्रोतारस् समुपाजग्मुर् नभश्चरमहीचराः
विवेश सा सभा सोम्यं कृतान्योऽन्याभिवादना । बभौ समसमाभोगा शान्तवातेव पद्मिनी
यथाप्रदेशम् एवाशु निविष्टेषु यथासुखम् । तेषु तद्देशयोग्येषु विप्रर्षिमुनिराजसु
मृदुनि स्वागतरवे शनैश् शमम् उपागते । सभाकोणोपविष्टेषु शान्तशब्देषु वन्दिषु
त्वरयेवोदितेष्व् आशु श्रोतुम् अभ्यागतेष्व् इव । गवाक्षाद् इव जातेषु प्रविष्टेष्व् अर्करश्मिषु
सत्वरं प्रविशच्छ्रोतृहस्तस्पर्शवशोद्भवे । मुक्ताजालझणत्कार ओङ्कार इव शाम्यति
कुमारश् शङ्करस्येव कचो देवगुरोर् इव । प्रह्लाद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः