बालकेष्व् अज्ञलोकेषु लीलापक्षिषु सारवम् । भोजनार्थं वधूलोकम् उपरुन्धत्स्व् अनारतम्
भ्रमद्भ्रमरपक्षोत्थवाताधूते रजस्य् अलम् । कौसुमे परिविश्रान्ते चामरेष्व् अक्षिपक्ष्मसु
रश्मिष्व् अग्रग्रहोन्मुक्तच्छायाजालभयाद् इव । गवाक्षादिष्व् इवोड्डीय प्रविष्टेषु गृहान्तरम्
आसीद् दिनचतुर्भागसत्तावेदनतत्परः । भेरीपणवशङ्खानां दिङ्मुखापूरको ध्वनिः
तेन तत् तारम् अप्य् आशु वचो ऽन्तर्धानम् आययौ । मौनं जलदनादेन मायूर इव निस्स्वनः
चुक्षुभे क्षुब्धपक्षाली पञ्जरस्था खगावली । भूकम्पेन लसत्तालीपल्लवेव वनावली
आययुर् भयवित्रस्ता बाला धात्रीकुचान्तरम् । सारवं प्रावृशीवाब्दाः प्रोन्नतं शृङ्गकोटरम्
उत्तस्थुर् अवतंसेभ्यो भूभृतां भ्रमरव्रजाः । दृषत्करालवाहाभ्यस् सरिद्भ्यो ऽम्बुकणा इव
एवं प्रक्षुभिते तस्मिन् गृहे दाशरथे तदा । प्रोक्तवासरवृद्धत्वे शान्ते शङ्खस्वने शनैः
संहरन् प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् । उवाच मुनिशार्दूलस् सभामध्ये रघूद्वहम्
राघवानघ वाग्जालं मयैतद् यत् प्रसारितम् । तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय
कच्चिद् गृहीतो भवता मद्गिराम् अर्थ ईदृशः । त्यक्त्वा दुर्बोधम् अक्षीणो हंसेनेवाम्भसः पयः
विचार्यैतद् अशेषेण स्वधियैव पुनः पुनः । अनेनैव पथा साधो गन्तव्यं भवताधुना
अनयैव धिया राम विहरन् नैव बध्यसे । अन्यथाधः पतस्य् आशु विन्ध्यखाते यथा गजः
सुगृहीतं धिया राम मद्वचो न करोषि चेत् । तत् पतस्य् अवटे त्यक्तदीपः पान्थो यथा निशि
असङ्गेन यथाप्राप्तो व्यवहारस् स्वसिद्धये । इत्य् एवं शास्त्रसिद्धान्तम् आदायोदयवान् भव
हे सभ्या हे महाराज राम लक्ष्मण भूमिपाः । सर्व एव भवन्तो ऽद्य तावद् व्यापारम् आह्निकम्
कुर्वन्त्व् अयं हि दिवसः प्रायः परिणताकृतिः । शेषं विचारयिष्यामो विचार्यं प्रातर् आगताः
इत्य् उक्ते मुनिना तेन सा सर्वैव सभा तदा । प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी
राजानस् स्तुतराजानः कृतराघववन्दनाः । परिष्टुतवसिष्ठास् ते जग्मुर् आत्मनिवेशनम्
विश्वामित्रेण सहितो वसिष्ठो गन्तुम् आश्रमम् । उत्तस्थाव् आसनाच् छ्रीमान् नमस्कृतनभश्चरः
दशरथप्रभृतयो राजानो मुनयस् तथा । यथानुरूपं वक्तारम् अनुगम्य चिरं मुनिम्
आपृच्छ्य केचिद् गगनं ययुः केचिद् वनान्तरम् । केचिद् राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव
वसिष्ठपादयोस् त्यक्त्वा पुष्पाञ्जलिम् अनाबिलम् । पौरैर् अनुगतो राजा प्रविवेश गृहान्तरम्
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः । अभ्यर्च्य चरणौ भक्ता आजग्मुर् नृपमन्दिरम्
सदनानि समासाद्य श्रोतारस् सर्व एव ते । सस्नुर् आनर्चुर् अप्य् आशु देवान् विप्रान् पितॄंस् तथा
यथाक्रमं च विप्राद्यैर् भृत्यान्तैश् च परिच्छदैः । समं बुभुजिरे भोज्यं वर्णधर्मक्रमोचितम्
अस्तङ्गते दिनकरे समं दिवसकर्मभिः । अभ्यागते रात्रिकरे समं रजनिकर्मभिः
स्थितास् तल्पेषु कौशेयशयनेष्व् आसनेषु च । भूचरा मुनिराजानो राजपुत्रा महर्षयः
संसारोत्तरणोपायं वसिष्ठवचनेरितम् । यथावद् एकाग्रधियश् चिन्तयाम् आसुर् आदृताः