मुनिवागर्थनिक्षिप्तमनस्य् अस्तेतरक्रिये । राजलोके गतस्पन्दं चित्रार्पित इव स्थिते
वसिष्ठवचसाम् अर्थं विचारयति सादरम् । लसदङ्गुलिभङ्गे च मुनिसार्थे स्फुरद्भ्रुवि
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि । पुरन्ध्रिवर्गे प्रग्रीवतरुमञ्जरितां गते
खे वासरचतुर्भागदेशे दिनकरे स्थिते । श्रुतज्ञानतया सौम्ये किञ्चिच् छमम् उपेयुषि
श्रवणायेव संशान्तवितानस्पन्दम् आस्थिते । मौनं मरुति मन्दारमधुरामोददायिनि
पुष्पदामसु सुप्तासु मदाद् भ्रमरपङ्क्तिषु । ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्व् इव
जालमुक्ताकलापान्तस् तथा मकुरभूमिषु । कचत्य् अपगतस्पन्दं तापे श्रोतुम् इवास्थिते
गृहान्तरं प्रविष्टेषु गवाक्षैर् दूरम् अंशुषु । विश्रमार्थम् इवादीर्घनभःपान्थेषु शीतलम्
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि । शंसतीव शमं शाम्यद्दिनदेहे दिनातपे
करलीलासरोजेषु शेखरेषु च भूभृताम् । शुष्यत्सु रससंशोषाद् अवृत्तिषु मनस्स्व् इव
बालकेष्व् अज्ञलोकेषु लीलापक्षिषु सारवम् । भोजनार्थं वधूलोकम् उपरुन्धत्स्व् अनारतम्
भ्रमद्भ्रमरपक्षोत्थवाताधूते रजस्य् अलम् । कौसुमे परिविश्रान्ते चामरेष्व् अक्षिपक्ष्मसु
रश्मिष्व् अग्रग्रहोन्मुक्तच्छायाजालभयाद् इव । गवाक्षादिष्व् इवोड्डीय प्रविष्टेषु गृहान्तरम्
आसीद् दिनचतुर्भागसत्तावेदनतत्परः । भेरीपणवशङ्खानां दिङ्मुखापूरको ध्वनिः
तेन तत् तारम् अप्य् आशु वचो ऽन्तर्धानम् आययौ । मौनं जलदनादेन मायूर इव निस्स्वनः
चुक्षुभे क्षुब्धपक्षाली पञ्जरस्था खगावली । भूकम्पेन लसत्तालीपल्लवेव वनावली
आययुर् भयवित्रस्ता बाला धात्रीकुचान्तरम् । सारवं प्रावृशीवाब्दाः प्रोन्नतं शृङ्गकोटरम्
उत्तस्थुर् अवतंसेभ्यो भूभृतां भ्रमरव्रजाः । दृषत्करालवाहाभ्यस् सरिद्भ्यो ऽम्बुकणा इव
एवं प्रक्षुभिते तस्मिन् गृहे दाशरथे तदा । प्रोक्तवासरवृद्धत्वे शान्ते शङ्खस्वने शनैः
संहरन् प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् । उवाच मुनिशार्दूलस् सभामध्ये रघूद्वहम्
राघवानघ वाग्जालं मयैतद् यत् प्रसारितम् । तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय
कच्चिद् गृहीतो भवता मद्गिराम् अर्थ ईदृशः । त्यक्त्वा दुर्बोधम् अक्षीणो हंसेनेवाम्भसः पयः
विचार्यैतद् अशेषेण स्वधियैव पुनः पुनः । अनेनैव पथा साधो गन्तव्यं भवताधुना
अनयैव धिया राम विहरन् नैव बध्यसे । अन्यथाधः पतस्य् आशु विन्ध्यखाते यथा गजः
सुगृहीतं धिया राम मद्वचो न करोषि चेत् । तत् पतस्य् अवटे त्यक्तदीपः पान्थो यथा निशि
असङ्गेन यथाप्राप्तो व्यवहारस् स्वसिद्धये । इत्य् एवं शास्त्रसिद्धान्तम् आदायोदयवान् भव
हे सभ्या हे महाराज राम लक्ष्मण भूमिपाः । सर्व एव भवन्तो ऽद्य तावद् व्यापारम् आह्निकम्
कुर्वन्त्व् अयं हि दिवसः प्रायः परिणताकृतिः । शेषं विचारयिष्यामो विचार्यं प्रातर् आगताः
इत्य् उक्ते मुनिना तेन सा सर्वैव सभा तदा । प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी
राजानस् स्तुतराजानः कृतराघववन्दनाः । परिष्टुतवसिष्ठास् ते जग्मुर् आत्मनिवेशनम्