न जिघ्रत्य् अपि जिघ्रंश् च नोन्मिषंश् चोन्मिषत्य् अपि । पदार्थे न पतत्य् एव बलात् पातितम् अप्य् अलम्
देशान्तरस्थचेतोभिर् एतद् आत्मगृहस्थितैः । अप्रौढमतिभिस् साधु मुर्खैर् अप्य् अनुभूयते
सङ्गः कारणम् अर्थानां सङ्गस् संसारकारणम् । सङ्गः कारणम् आशानां सङ्गः कारणम् आपदाम्
सङ्गत्यागं विदुर् मोक्षं सङ्गत्यागाद् अजन्मता । सङ्गं सन्त्यज्य भावानां जीवन्मुक्तो भवानघ
सर्वसंशयनीहारशरन्मारुत हे मुने । सङ्गः किम् उच्यते ब्रूहि समासेन मम प्रभो
भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा स सङ्ग इति कथ्यते
जीवन्मुक्तशरीराणाम् अपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना
ताम् असङ्गाभिधां विद्धि यावद्देहं च भाविनीम् । तया यत् क्रियते कर्म तद् बन्धायैव केवलम्
एवंरूपं परित्यज्य सङ्गं स्वाङ्गविकारदम् । यदि तिष्ठसि निर्व्यग्रं कुर्वन्न् अपि तद् अस्य् असि
हर्षामर्षविकाराभ्यां यदि गच्छसि नान्यताम् । वीतरागभयक्रोधस् तद् असङ्गो ऽसि राघव
असङ्गताम् अनायासां जीवन्मुक्तस्थितिं स्थिराम् । अवलम्ब्य समस् स्वस्थो वीतरागो भवानघ
जीवन्मुक्तमतिर् मौनी निगृहीतेन्द्रियग्रहः । अमानमदमात्सर्य आर्यस् तिष्ठति विज्वरः
सदा समग्रे ऽपि हि वस्तुजाते समाशयो ऽप्य् अन्तर् अदीनसत्त्वः । व्यापारमात्रात् सहजात् क्रमस्थान् न किञ्चिद् अप्य् अन्यद् असौ करोति
यद् एव किञ्चित् प्रकृतक्रमस्थं कर्तव्यम् आत्मीयम् असौ तद् एव । संसङ्गसम्बन्धविहीनयैव कुर्वन्न् अखेदो रमते धियान्तः
अप्य् आपदं प्राप्य सुसम्पदं वा महामतिस् स्वं प्रकृतं स्वभावम् । जहाति नो मन्दरवेल्लितो ऽपि शौक्ल्यं यथा क्षीरमहाम्बुराशिः
सम्प्राप्य साम्राज्यम् अथापदं वा सरीसृपत्वं सुरनाथतां वा । तिष्ठत्य् अखेदोदयम् अस्तहर्षं क्षयोदयेष्व् इन्दुर् इवैकरूपः
निरस्तसंरम्भम् अपास्तभेदं प्रशान्तनानाफलफल्गुचेष्टः । विचारयात्मानम् अदीनसत्त्वो यथा भवस्य् उत्तमकार्यनिष्ठः
तथोदितप्रसरविलासशुद्धया गतज्वरं पदम् अवलोकयामलम् । धियेद्धया पुनर् इह जन्मबन्धनैर् न बध्यसे समधिगतात्मदृग् यथा
उपशान्तिप्रकरणाद् अनन्तरम् इदं शृणु । त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणकारि यत्
कथयत्य् एवम् उद्दामवचनं मुनिनायके । श्रवणैकरसे मौनं स्थिते राजकुमारके
मुनिवागर्थनिक्षिप्तमनस्य् अस्तेतरक्रिये । राजलोके गतस्पन्दं चित्रार्पित इव स्थिते
वसिष्ठवचसाम् अर्थं विचारयति सादरम् । लसदङ्गुलिभङ्गे च मुनिसार्थे स्फुरद्भ्रुवि
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि । पुरन्ध्रिवर्गे प्रग्रीवतरुमञ्जरितां गते
खे वासरचतुर्भागदेशे दिनकरे स्थिते । श्रुतज्ञानतया सौम्ये किञ्चिच् छमम् उपेयुषि
श्रवणायेव संशान्तवितानस्पन्दम् आस्थिते । मौनं मरुति मन्दारमधुरामोददायिनि
पुष्पदामसु सुप्तासु मदाद् भ्रमरपङ्क्तिषु । ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्व् इव
जालमुक्ताकलापान्तस् तथा मकुरभूमिषु । कचत्य् अपगतस्पन्दं तापे श्रोतुम् इवास्थिते
गृहान्तरं प्रविष्टेषु गवाक्षैर् दूरम् अंशुषु । विश्रमार्थम् इवादीर्घनभःपान्थेषु शीतलम्
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि । शंसतीव शमं शाम्यद्दिनदेहे दिनातपे
करलीलासरोजेषु शेखरेषु च भूभृताम् । शुष्यत्सु रससंशोषाद् अवृत्तिषु मनस्स्व् इव