जीवितस्यापि हन्तारं दातारं चैकरूपया । दृशा प्रसादमाधुर्यशालिन्या परिपश्यति
स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु । न हृष्यति ग्लायति वा सदा समतयेद्धया
त्यक्तास्थत्वाद् अनादेयरूपत्वाज् जगतस् स्थितेः । नूनं विदितवेद्यत्वान् नीरागत्वात् स्वचेतसः
न कस्यचिन् न कस्याञ्चिद् अक्षस्य विषयस्थितौ । ददाति प्रसरं साधुर् आधिप्रोज्झितया धिया
अतत्त्वज्ञम् अविश्रान्तम् अलब्धात्मानम् अस्थिरम् । निगिरन्तीन्द्रियाण्य् आशु हरिणा इव पल्लवम्
उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् । निगिरन्तीन्द्रियग्राहा हाहाक्रन्दपरायणम्
विचारतो लब्धपदं विश्रान्तधियम् आत्मनि । न हरन्ति विकल्पौघा जलौघा इव पर्वतम्
सर्वसङ्कल्पसीमान्ते विश्रान्तानां परे पदे । तेषां लब्धस्वरूपाणां मेरुर् एव तृणायते
जगज् जरत्तृणलवो विषं चामृतम् एव च । क्षणः कल्पसहस्रं च समता ततचेतसाम्
संविन्मात्रं जगद् इति मत्वा मुदितबुद्धयः । संविन्मयत्वाद् अन्तस्स्थजगत्का विहरन्त्य् अमी
संविन्मात्रपरिस्पन्दे जागते वस्तुपञ्जरे । किं हेयं किम् उपादेयम् इह तत्त्वविदो मुनेः
संविद् एवेदम् अखिलं भ्रान्तिम् अन्यां त्यजानघ । संविन्मयवपुस् स्फारः किं जहासि किम् ईहसे
यद् एतज् जायते भूमेर् भविष्यत् पेलवाङ्कुरः । तत् संविद् एव प्रथते तथा न त्व् अङ्कुरो ऽस्ति सः
आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तस्य या । कञ्चित् काललवं दृष्टा सत्तासौ संविदो भ्रमः
इति मत्वा धियं त्यक्त्वा भावाभावानुपातिनीम् । निस्सङ्गसंविद्भारूपो भव भावान्तम् आगतः
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । कर्म कुर्वन्न् अकुर्वन् वा निस्सङ्गस् सन् न लिप्यसे
गतसङ्गेन मनसा कुर्वन्न् अपि न लिप्यसे । सुखदुःखैर् महाबाहो मनोरथदशास्व् इव
गतसङ्गमतिः कर्म कुर्वन्न् अप्य् अङ्गयष्टिभिः । न लिप्यते सुखैर् दुःखैर् मनोरथकलास्व् इव
गतसङ्गमना दृष्ट्या पश्यन्न् अपि न पश्यति । एतद् अन्यस्थचित्तत्वाद् बालेनाप्य् अनुभूयते
गतसङ्गं मनो जन्तोः पश्यंश् चापि न पश्यति । न शृणोत्य् अपि शृण्वंश् च न स्पृशत्य् अपि संस्पृशन्
न जिघ्रत्य् अपि जिघ्रंश् च नोन्मिषंश् चोन्मिषत्य् अपि । पदार्थे न पतत्य् एव बलात् पातितम् अप्य् अलम्
देशान्तरस्थचेतोभिर् एतद् आत्मगृहस्थितैः । अप्रौढमतिभिस् साधु मुर्खैर् अप्य् अनुभूयते
सङ्गः कारणम् अर्थानां सङ्गस् संसारकारणम् । सङ्गः कारणम् आशानां सङ्गः कारणम् आपदाम्
सङ्गत्यागं विदुर् मोक्षं सङ्गत्यागाद् अजन्मता । सङ्गं सन्त्यज्य भावानां जीवन्मुक्तो भवानघ
सर्वसंशयनीहारशरन्मारुत हे मुने । सङ्गः किम् उच्यते ब्रूहि समासेन मम प्रभो
भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा स सङ्ग इति कथ्यते
जीवन्मुक्तशरीराणाम् अपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना
ताम् असङ्गाभिधां विद्धि यावद्देहं च भाविनीम् । तया यत् क्रियते कर्म तद् बन्धायैव केवलम्
एवंरूपं परित्यज्य सङ्गं स्वाङ्गविकारदम् । यदि तिष्ठसि निर्व्यग्रं कुर्वन्न् अपि तद् अस्य् असि
हर्षामर्षविकाराभ्यां यदि गच्छसि नान्यताम् । वीतरागभयक्रोधस् तद् असङ्गो ऽसि राघव