रत्नकाञ्चनकुड्येषु मणिमुक्तामयेषु च । तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च
केषुचिद् दर्शनं श्रीमान् नाभिवाञ्छत्य् असक्तधीः । परिपूर्णमना मौनी मानी शत्रुष्व् इवाबलः
ज्ञानवान् कुन्दमन्दारकल्हारकुमुदादिषु । कमलोत्पलपुन्नागकेतकागुरुजातिषु
कदम्बचूतजम्बीरकिंशुकाशोकशाखिषु । जपातिमुक्तसौवीरनिम्बपाटलदामसु
चन्दनागुरुकर्पूररजोमृगमदेषु च । कश्मीरजलवङ्गैलाकक्कोलतगरादिषु
केषुचिन् न निबध्नाति सौगन्ध्यरतिम् एकधीः । समबुद्धिर् अविक्षोभी मध्वामोदेष्व् इव द्विजः
अब्धौ गुलुगुलारावे प्रतिश्रुत्कस्वने गिरौ । निनदे च मृगेन्द्राणां न क्षुभ्यति मनाग् अपि
मत्तमातङ्गबृंहासु वेतालवलनासु च । पिशाचयक्षक्ष्वेडासु न मनाग् अपि कम्पते
अशनिस्वनघोषेण नगास्फोटरवेण च । ऐरावणनिनादेन साम्यध्यानान् न कम्पते
वहत्क्रकचकाषेण शितासिदलनेन च । शिलाशनिनिपातेन कम्पते न स्वरूपतः
नानन्दम् एत्य् उपवने न खेदम् अधिगच्छति । न खेदम् एति मरुषु नानन्दम् अधिगच्छति
पूताङ्गारसमानल्पसैकतेष्व् अरिबन्धुषु । पुष्पप्रकरसञ्छन्नमृदुशाद्वलभूमिषु
क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः । उन्नताचलदेशेषु कूपकोशतलेषु च
शिलास्व् अर्कांशुतप्तासु मृद्वीषु ललनासु च । सम्पत्स्व् आपत्सु चोग्रासु मरणेषूत्सवेषु च
विहरन्न् अपि नोद्वेगं नानन्दम् अधिगच्छति । अन्तर्मुक्तं मनो नित्यं समं कृत्वैव तिष्ठति
अयश्शङ्कुचिताङ्गासु नरकारण्यभूमिषु । परस्परेरितानन्तकुन्ततोमरवृष्टिषु
न बिभेति न चादत्ते वैवश्यं न च दीनताम् । समस् स्वस्थमना मौनी धीरस् तिष्ठति शैलवत्
अपवित्रं च पथ्यं च विषपङ्कगराद्य् अपि । भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत्
निम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् । असक्तबुद्धिस् तत्त्वज्ञो भवत्य् आस्वादने समः
मैरेयमदिराक्षीररक्तमेदोवसासवैः । तुषास्थितृणकेशान्नैर् न हृष्यति न कुप्यति
जीवितस्यापि हन्तारं दातारं चैकरूपया । दृशा प्रसादमाधुर्यशालिन्या परिपश्यति
स्थिरास्थिरशरीरेषु रम्यारम्येषु वस्तुषु । न हृष्यति ग्लायति वा सदा समतयेद्धया
त्यक्तास्थत्वाद् अनादेयरूपत्वाज् जगतस् स्थितेः । नूनं विदितवेद्यत्वान् नीरागत्वात् स्वचेतसः
न कस्यचिन् न कस्याञ्चिद् अक्षस्य विषयस्थितौ । ददाति प्रसरं साधुर् आधिप्रोज्झितया धिया
अतत्त्वज्ञम् अविश्रान्तम् अलब्धात्मानम् अस्थिरम् । निगिरन्तीन्द्रियाण्य् आशु हरिणा इव पल्लवम्
उह्यमानं भवाम्भोधौ वासनावीचिवेल्लितम् । निगिरन्तीन्द्रियग्राहा हाहाक्रन्दपरायणम्
विचारतो लब्धपदं विश्रान्तधियम् आत्मनि । न हरन्ति विकल्पौघा जलौघा इव पर्वतम्
सर्वसङ्कल्पसीमान्ते विश्रान्तानां परे पदे । तेषां लब्धस्वरूपाणां मेरुर् एव तृणायते
जगज् जरत्तृणलवो विषं चामृतम् एव च । क्षणः कल्पसहस्रं च समता ततचेतसाम्
संविन्मात्रं जगद् इति मत्वा मुदितबुद्धयः । संविन्मयत्वाद् अन्तस्स्थजगत्का विहरन्त्य् अमी