ज्ञानवान् बालकदलीस्तम्भपल्लवपाणिषु । चन्दनागुरुमन्दारलतास्तबकसद्मसु
कौशेयहारकुन्देन्दुकमलोत्पलभूमिषु । द्रवत्काञ्चनकान्तेषु नितम्बस्तनबाहुषु
ऊरुष्व् अनङ्गसदनहेमतोरणशोभिषु । सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु
केषुचिन् न निबध्नाति स्वायत्तेष्व् अप्य् असक्तधीः । राम स्पर्शरतिं धीरो हंसो मरुमहीष्व् इव
ज्ञानवान् पिण्डखर्जूरकदम्बपनसादिषु । मृद्वीकेक्ष्वारुकाक्षोटबिसजम्बीरजातिषु
मदिरामधुमैरेयमार्द्वीकासवभूतिषु । दधिक्षीरघृतामिक्षानवनीतौदनेषु च
षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु । फलेष्व् अन्नेषु मूलेषु शाकेष्व् अप्य् आमिषेषु च
केषुचिन् न निबध्नाति तृप्तमूर्तिर् असक्तधीः । आस्वादनरतिं विप्रश् श्वशरीरपलेष्व् इव
ज्ञानवान् यमचन्द्रेन्द्ररुद्रविष्ण्वब्जजादिषु । मेरुमन्दरकैलाससह्यदर्दुरसानुषु
कौशेयदलजालेषु चन्द्रबिम्बफलादिषु । कल्पपादपकुञ्जेषु देवीदोलाविलासिषु
रत्नकाञ्चनकुड्येषु मणिमुक्तामयेषु च । तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च
केषुचिद् दर्शनं श्रीमान् नाभिवाञ्छत्य् असक्तधीः । परिपूर्णमना मौनी मानी शत्रुष्व् इवाबलः
ज्ञानवान् कुन्दमन्दारकल्हारकुमुदादिषु । कमलोत्पलपुन्नागकेतकागुरुजातिषु
कदम्बचूतजम्बीरकिंशुकाशोकशाखिषु । जपातिमुक्तसौवीरनिम्बपाटलदामसु
चन्दनागुरुकर्पूररजोमृगमदेषु च । कश्मीरजलवङ्गैलाकक्कोलतगरादिषु
केषुचिन् न निबध्नाति सौगन्ध्यरतिम् एकधीः । समबुद्धिर् अविक्षोभी मध्वामोदेष्व् इव द्विजः
अब्धौ गुलुगुलारावे प्रतिश्रुत्कस्वने गिरौ । निनदे च मृगेन्द्राणां न क्षुभ्यति मनाग् अपि
मत्तमातङ्गबृंहासु वेतालवलनासु च । पिशाचयक्षक्ष्वेडासु न मनाग् अपि कम्पते
अशनिस्वनघोषेण नगास्फोटरवेण च । ऐरावणनिनादेन साम्यध्यानान् न कम्पते
वहत्क्रकचकाषेण शितासिदलनेन च । शिलाशनिनिपातेन कम्पते न स्वरूपतः
नानन्दम् एत्य् उपवने न खेदम् अधिगच्छति । न खेदम् एति मरुषु नानन्दम् अधिगच्छति
पूताङ्गारसमानल्पसैकतेष्व् अरिबन्धुषु । पुष्पप्रकरसञ्छन्नमृदुशाद्वलभूमिषु
क्षुरधारासु तीक्ष्णासु शय्यासु च नवोत्पलैः । उन्नताचलदेशेषु कूपकोशतलेषु च
शिलास्व् अर्कांशुतप्तासु मृद्वीषु ललनासु च । सम्पत्स्व् आपत्सु चोग्रासु मरणेषूत्सवेषु च
विहरन्न् अपि नोद्वेगं नानन्दम् अधिगच्छति । अन्तर्मुक्तं मनो नित्यं समं कृत्वैव तिष्ठति
अयश्शङ्कुचिताङ्गासु नरकारण्यभूमिषु । परस्परेरितानन्तकुन्ततोमरवृष्टिषु
न बिभेति न चादत्ते वैवश्यं न च दीनताम् । समस् स्वस्थमना मौनी धीरस् तिष्ठति शैलवत्
अपवित्रं च पथ्यं च विषपङ्कगराद्य् अपि । भुक्त्वा जरयति क्षिप्रं क्लिन्नं नष्टं च मृष्टवत्
निम्बप्रतिविषाकल्कक्षीरेक्षुसलिलान्धसाम् । असक्तबुद्धिस् तत्त्वज्ञो भवत्य् आस्वादने समः
मैरेयमदिराक्षीररक्तमेदोवसासवैः । तुषास्थितृणकेशान्नैर् न हृष्यति न कुप्यति