येन शास्त्रविचारेण ब्रह्मतत्त्वं विबुध्यते । तज् ज्ञानम् उच्यते ज्ञेयाद् अभिन्नम् इव संस्थितम्
विचारो ऽध्यात्मविद्यानां ज्ञानम् अङ्ग विदुर् बुधाः । ज्ञेयम् अस्यान्तर् एवास्ति माधुर्यं पयसो यथा
सम्यग्ज्ञानसमालोकः पुमाञ् ज्ञेयमयस् स्वयम् । भवत्य् आपीतमैरेयो मदानन्दमयो यथा
सदसद्रूपम् अमलं ज्ञेयं ब्रह्म परं विदुः । ज्ञानाधिगममात्रेण तत् स्वयं सम्प्रसीदति
ज्ञानवान् उदितानन्दो न क्वचित् परिमज्जति । जीवन्मुक्तो गतासङ्गं सम्राडात्मैव तिष्ठति
ज्ञानवान् हृद्यशब्देषु वीणावंशरवादिषु । कामिन्याः कामगीतेषु सम्भोगमणितेषु च
वसन्तमदमत्तानां षट्पदानां स्वनेषु च । प्रावृट्प्रसरपुष्टेषु जलदस्तनितेषु च
उत्ताण्डवशिखण्डेषु केकाकलरवेषु च । रणिताम्भोजषण्डेषु सारसक्वणितेषु च
कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च । ततावनद्धसुषिरचित्रवाद्यस्वनेषु च
केषुचिन् न निबध्नाति रूक्षेषु मधुरेषु च । रणितेषु रतिं राम पद्मेष्व् इव निशाकरः
ज्ञानवान् बालकदलीस्तम्भपल्लवपाणिषु । चन्दनागुरुमन्दारलतास्तबकसद्मसु
कौशेयहारकुन्देन्दुकमलोत्पलभूमिषु । द्रवत्काञ्चनकान्तेषु नितम्बस्तनबाहुषु
ऊरुष्व् अनङ्गसदनहेमतोरणशोभिषु । सुरगन्धर्वकन्याङ्गलतानन्दनकेलिषु
केषुचिन् न निबध्नाति स्वायत्तेष्व् अप्य् असक्तधीः । राम स्पर्शरतिं धीरो हंसो मरुमहीष्व् इव
ज्ञानवान् पिण्डखर्जूरकदम्बपनसादिषु । मृद्वीकेक्ष्वारुकाक्षोटबिसजम्बीरजातिषु
मदिरामधुमैरेयमार्द्वीकासवभूतिषु । दधिक्षीरघृतामिक्षानवनीतौदनेषु च
षड्रसेषु विचित्रेषु लेह्यपेयविलासिषु । फलेष्व् अन्नेषु मूलेषु शाकेष्व् अप्य् आमिषेषु च
केषुचिन् न निबध्नाति तृप्तमूर्तिर् असक्तधीः । आस्वादनरतिं विप्रश् श्वशरीरपलेष्व् इव
ज्ञानवान् यमचन्द्रेन्द्ररुद्रविष्ण्वब्जजादिषु । मेरुमन्दरकैलाससह्यदर्दुरसानुषु
कौशेयदलजालेषु चन्द्रबिम्बफलादिषु । कल्पपादपकुञ्जेषु देवीदोलाविलासिषु
रत्नकाञ्चनकुड्येषु मणिमुक्तामयेषु च । तिलोत्तमोर्वशीरम्भामेनकाङ्गलतासु च
केषुचिद् दर्शनं श्रीमान् नाभिवाञ्छत्य् असक्तधीः । परिपूर्णमना मौनी मानी शत्रुष्व् इवाबलः
ज्ञानवान् कुन्दमन्दारकल्हारकुमुदादिषु । कमलोत्पलपुन्नागकेतकागुरुजातिषु
कदम्बचूतजम्बीरकिंशुकाशोकशाखिषु । जपातिमुक्तसौवीरनिम्बपाटलदामसु
चन्दनागुरुकर्पूररजोमृगमदेषु च । कश्मीरजलवङ्गैलाकक्कोलतगरादिषु
केषुचिन् न निबध्नाति सौगन्ध्यरतिम् एकधीः । समबुद्धिर् अविक्षोभी मध्वामोदेष्व् इव द्विजः
अब्धौ गुलुगुलारावे प्रतिश्रुत्कस्वने गिरौ । निनदे च मृगेन्द्राणां न क्षुभ्यति मनाग् अपि
मत्तमातङ्गबृंहासु वेतालवलनासु च । पिशाचयक्षक्ष्वेडासु न मनाग् अपि कम्पते
अशनिस्वनघोषेण नगास्फोटरवेण च । ऐरावणनिनादेन साम्यध्यानान् न कम्पते
वहत्क्रकचकाषेण शितासिदलनेन च । शिलाशनिनिपातेन कम्पते न स्वरूपतः