सुखदुःखक्षयकरं महानन्दैकसाधनम् । मोक्षोपायम् इतो राम वक्ष्यमाणं इमं शृणु
इमां मोक्षकथां श्रुत्वा सह सर्वैर् विवेकिभिः । पदं यास्यसि निर्दुःखं नाशो यत्र न विद्यते
इदम् उक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना । सर्वदुःखक्षयकरं परमाश्वासनं धियः
केनोक्तं कारणेनेदं ब्रह्मन् पूर्वं स्वयम्भुवा । कथं च भवता प्राप्तम् एतत् कथय मे प्रभो
अस्त्य् अनन्तविलासात्मा सर्वगस् सर्वसंश्रयः । चिदाकाशो ऽविनाशात्मा प्रदीपस् सर्ववस्तुषु
स्पन्दास्पन्दसमाकारात् ततो विष्णुर् अजायत । स्पन्दमानरसापूरात् तरङ्गस् सागराद् इव
सुमेरुकर्णिकात् तस्य दिग्दलाद् धृदयाम्बुजात् । तारकाकेसरवतः परमेष्ठी व्यजायत
वेदवेदार्थदेवेशमुनिमण्डलमालितम् । सो ऽसृजत् सकलं सर्गं विकल्पौघं यथा मनः
जम्बुद्वीपस्य कोणे ऽस्मिन् वर्षे भारतनामनि । स ससर्ज जनं पुत्रैर् आधिव्याधिपरिप्लुतम्
भावाभावविषण्णार्थम् उत्पातध्वंसतत्परम् । सर्गे ऽस्मिन् भूतजातीनाम् आप्यायनकरं परम्
जनस्य तस्य दुःखं स दृष्ट्वा सकललोककृत् । जगाम करुणाम् ईशः पुत्रदुःखाद् यथा पिता
क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् । स्याद् इति क्षणम् एकाग्रश् चिन्तयाम् आस भूतपः
इति सञ्चिन्त्य भगवान् ससर्ज पुनर् ईश्वरः । तपो धर्मं च दानं च सत्यं तीर्थानि चैव ह
एतत् सृष्ट्वा पुनर् देवश् चिन्तयाम् आस भूतकृत् । पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम्
निर्वाणं नाम परमं सुखं येन पुनर् जनः । न जायते न म्रियते तज् ज्ञानाद् एव लभ्यते
संसारोत्तरणे जन्तोर् उपायो ज्ञानम् एव हि । तपो दानं तथा तीर्थम् अणूपायः प्रकीर्तितः
तत् तावद् दुःखमोक्षार्थं जनस्यास्य महात्मनः । प्रत्यग्रं तरणोपायम् आशु प्रकटयाम्य् अहम्
इति सञ्चिन्त्य भगवान् ब्रह्मा कमलसंस्थितः । मनसा परिसङ्कल्प्य माम् उत्पादितवान् इमम्
कुतो ऽप्य् उत्पन्न एवाशु ततो ऽहं समुपस्थितः । पितुस् तस्य पुरश् शीघ्रम् ऊर्मेर् ऊर्मिर् इवानघ
कमण्डलुधरो नाथस् सकमण्डलुना मया । साक्षमालस् साक्षमालं स प्रणम्याभिवादितः
एहि पुत्रेति माम् उक्त्वा स स्वाब्जस्योत्तरे दले । शुक्ले ऽभ्र इव शीतांशुं योजयाम् आस पाणिना
मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् । माम् उवाच पिता ब्रह्मा स हंसस् सारसं यथा
मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् । अज्ञानम् अभ्याविशतु शशश् शशधरं यथा
इति तेनाशु शप्तस् सन् विचारसमनन्तरम् । अहं विस्मृतवान् सर्वं स्वरूपम् अमलं द्विजः
अथाहं दीनतां यातस् स्थितस् सम्बुद्धया धिया । दुःखशोकाभिसन्तप्तो जातो जन इवाधमः
कष्टं संसारनामायं दोषः कथम् इवागतः । इति चिन्तितवान् अन्तस् तूष्णीम् एव व्यवस्थितः
अथाभ्यधात् स मां तातः पुत्र किं दुःखवान् असि । दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि
ततः पृष्टस् स भगवान् मया सकललोककृत् । हैमपद्मदलस्थेन संसारव्याधिभेषजम्
कथं नाम महद् दुःखम् अयं संसार आगतः । कथं च क्षीयते जन्तोर् इति पृष्टेन तेन मे
तज् ज्ञानं सुबहु प्रोक्तं यज् ज्ञात्वा पावनं परम् । अहं पितुर् अपि प्रायः किलाधिक इव स्थितः