संवेद्यवर्जितम् अनुत्तमम् आद्यम् एकं संवित्पदं विकलनं कलयन् महात्मन् । हृद्य् एव तिष्ठ कलनारहितः क्रियां तु कुर्वन्न् अकर्तृपदम् एष्य् असमोदितश्रीः
मनाग् अपि विचारेण चेतसस् स्वस्य निग्रहः । मनाग् अपि कृतो येन तेनाप्तं जन्मनः फलम्
विचारकणिका येषां हृदि स्फुरति पेलवा । एषैवाभ्यासयोगेन प्रयाति शतशाखताम्
किञ्चित्प्रौढविचारं तु नरं वैराग्यपूर्वकम् । संश्रयन्ति गुणा गौरास् सरः पूर्णम् इवाण्डजाः
सम्यग्विचारिणं प्राज्ञं यथाभूतावलोकिनम् । आसादयन्त्य् अपि स्फारा नाविद्याविभवा भृशम्
किं कुर्वन्तीह विषया मानस्यो वृत्तयस् तथा । आधयो व्याधयो वापि सम्यग्दर्शनसन्मतेः
क्वोन्नमत्पवनापूरास् तडित्पिङ्गलपाटलाः । पुष्करावर्तजलदा गृहीता जालमुष्टिभिः
क्व नभोमध्यसंस्थेन्दुर् मुग्धे मणिसमुद्गके । मुग्धयाङ्गनया बद्धो मुग्धेन्दीवरशङ्कया
क्व कटप्रोच्छलद्भृङ्गपटलोत्पलशेखराः । मुग्धस्त्रीश्वासमधुरैर् मषकैर् मथिता गजाः
क्वेभमुक्ताफलोल्लासनिरणन्नखपञ्जराः । सिंहास् समरसंरब्धा हरिणैः प्रविदारिताः
क्व विषोल्लासनिश्श्वासदग्धोन्नतवनद्रुमाः । क्षुद्वन्तो ऽजगराः क्षुब्धा निगीर्णा बालदर्दुरैः
क्व प्राप्तभूमिको धीरो ज्ञातज्ञेयो विवेकवान् । आक्रान्तः किल विक्रान्तो विषयेन्द्रियदस्युभिः
विचारधियम् अप्रौढां हरन्ति विषयारयः । प्रचण्डपवना मृद्वीं क्षतवृन्तां लताम् इव
न विवेकबलप्रौढां भङ्क्तुं शक्ता दुराधयः । कल्पक्षोभसहं धीरं शैलं मन्दानिला इव
अगृहीतमहीपीठं विचारकुसुमद्रुमम् । चिन्तावात्या विधुन्वन्ति न स्थिरस्थितिसुस्थितम्
गच्छतस् तिष्ठतो वापि जाग्रतस् स्वपतो ऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते
किम् इदं स्याज् जगत् किं स्याद् अहम् इत्य् अनिशं शनैः । विचारयाध्यात्मदृशा स्वयं वा सज्जनैस् सह
अन्धकारपरेणाशु विचारेण परं पदम् । दृश्यते विमलं रत्नं प्रदीपेनेव भास्वता
ज्ञानेन सर्वदुःखानां विनाश उपजायते । कृतालोकविलासेन तमसाम् इव भास्वता
ज्ञाने प्रकटतां याते ज्ञेयं स्वयम् उदेत्य् अलम् । रवाव् अभ्युदिते भूमाव् आलोक इव निर्मलः
येन शास्त्रविचारेण ब्रह्मतत्त्वं विबुध्यते । तज् ज्ञानम् उच्यते ज्ञेयाद् अभिन्नम् इव संस्थितम्
विचारो ऽध्यात्मविद्यानां ज्ञानम् अङ्ग विदुर् बुधाः । ज्ञेयम् अस्यान्तर् एवास्ति माधुर्यं पयसो यथा
सम्यग्ज्ञानसमालोकः पुमाञ् ज्ञेयमयस् स्वयम् । भवत्य् आपीतमैरेयो मदानन्दमयो यथा
सदसद्रूपम् अमलं ज्ञेयं ब्रह्म परं विदुः । ज्ञानाधिगममात्रेण तत् स्वयं सम्प्रसीदति
ज्ञानवान् उदितानन्दो न क्वचित् परिमज्जति । जीवन्मुक्तो गतासङ्गं सम्राडात्मैव तिष्ठति
ज्ञानवान् हृद्यशब्देषु वीणावंशरवादिषु । कामिन्याः कामगीतेषु सम्भोगमणितेषु च
वसन्तमदमत्तानां षट्पदानां स्वनेषु च । प्रावृट्प्रसरपुष्टेषु जलदस्तनितेषु च
उत्ताण्डवशिखण्डेषु केकाकलरवेषु च । रणिताम्भोजषण्डेषु सारसक्वणितेषु च
कर्तर्यादिकरान्तेषु गम्भीरमुरजेषु च । ततावनद्धसुषिरचित्रवाद्यस्वनेषु च
केषुचिन् न निबध्नाति रूक्षेषु मधुरेषु च । रणितेषु रतिं राम पद्मेष्व् इव निशाकरः