वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः । समं सेव्यास् तव चिरं तेन तात न तप्यसे
त्रिभिर् एभिश् चिराभ्यस्तैर् हृदयग्रन्थयो दृढाः । निश्शेषम् एव त्रुट्यन्ति बिसच्छेदाद् गुणा इव
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः । सा चिराभ्यासयोगेन विना न क्षीयते क्वचित्
गच्छञ् शृण्वन् स्पृशञ् जिघ्रंस् तिष्ठञ् जाग्रत् स्वपन् सदा । श्रेयसे परमायास्य त्रयस्याभ्यासवान् भव
वासनासम्परित्यागसमं प्राणनिरोधनं । विदुस् तत्त्वविदस् तस्मात् तद् अप्य् एवं समाहरेत्
वासनासम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् । प्राणस्पन्दनिरोधाच् च यथेच्छसि तथा कुरु
प्राणायामदृढाभ्यासैर् युक्त्या च गुरुदत्तया । आसनासनयोगेन प्राणस्पन्दो निरुध्यते
सम्यग्ज्ञानविलासेन जगद्वस्तुष्व् अनास्थया । यथाभूतार्थदर्शित्वाद् वासना न प्रवर्तते
अदाव् अन्ते च वस्तूनाम् अविसंवादि यत् स्थिरम् । रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना
निस्सङ्गं व्यवहारित्वाद् भवभावनवर्जनात् । शरीरे नाशदर्शित्वाद् वासना न प्रवर्तते
संशान्ते पवनस्पन्दे यथा पांसुर् नभस्तले । वासनाविभवे नष्टे न चित्तं सम्प्रवर्तते
यः प्राणपवनस्पन्दश् चित्तस्पन्दस् स एव हि । तस्माज् जगन्ति जायन्ते पांसवो ऽवकराद् इव
प्राणस्पन्दजयो यत्नः कर्तव्यो धीमतोच्चकैः । उपविश्योपविश्यैकचित्तकेन मुहुर् मुहुः
अथ वैनं क्रमं त्यक्त्वा चित्ताक्रमणम् एव चेत् । रोचते ते तद् आप्नोषि कालेन बहुना पदम्
न शक्यते मनो जेतुं विना युक्तिम् अनिन्दित । अङ्कुशेन विना मत्तं यथा दुष्टमतङ्गजम्
अध्यात्मविद्याधिगमस् साधुसङ्गम एव च । वासनासम्परित्यागः प्राणस्पन्दनिरोधनम्
एतास् ता युक्तयः पुष्टास् सन्ति चित्तजये किल । याभिस् तज् जीयते क्षिप्रं धाराभिर् इव भूरजः
सतीषु युक्तिष्व् एतासु हठान् नियमयन्ति ये । चेतस् ते दीपम् उत्सृज्य विनिघ्नन्ति तमो ऽञ्जनैः
विमूढाः कर्तुम् उद्युक्ता ये हठाच् चेतसो जयम् । ते निबध्नन्ति नागेन्द्रम् उन्मत्तं बिसतन्तुभिः
चिरं चित्तस्य मादूरं संस्थितं स्वशरीरकम् । शोधयन्ति समुत्सृज्य युक्तिं ये तान् हतान् विदुः
भयाद् भयम् उपायान्ति क्लेशात् क्लेशं व्रजन्ति ते । निर्वृतिं नाधिगच्छन्ति दुर्भगा इव जन्तवः
कालं तीर्थतपोदानयज्ञदेवार्चनभ्रमैः । चिरम् आधिशतोपेताः क्षपयन्ति मृगा इव
भ्रमन्ति गिरिकूटेषु फलपल्लवभोजिनः । मुग्धमुग्धधियो भीता वराका हरिणा इव
मतिर् आलूनशीर्णाङ्गी तदीया पेलवाङ्गिका । न क्वचिद् याति विश्वासं मृगी ग्रामगता यथा
कल्लोलवलितं चेतस् तेषां जडजवाहृतम् । प्रोह्यते प्रपतद् दूरं तृणं गिरिनदीष्व् इव
आत्मतत्त्वं विधिवशात् कदाचित् किञ्चिद् एव ते । दुःखदोषदशादिग्धा विदन्ति न विदन्ति वा
आगमापायिनो नित्या नरकस्वर्गमानुषैः । पातोत्पातकराकारा नीयन्ते कन्दुका इव
ततो गच्छन्ति नरकं ततस् स्वर्गम् इहैव वा । आवृत्तिभिर् विवर्तन्ते सरितीव तरङ्गकाः
तस्माद् एताः परित्यज्य दुर्दृष्टी रघुनन्दन । शुद्धां संविदम् आश्रित्य वीतरागस् स्थिरो भव
ज्ञानवान् एव सुखभाग् ज्ञानवान् एव जीवति । ज्ञानवान् एव बलवांस् तस्माज् ज्ञानमयो भव