राम सर्वप्रयत्नेन तस्मिन् परमपावने । पदे स्थितिम् उपायासि यथा कुरु तथानघ
तद् अमलम् अजरं तद् आत्मतत्त्वं तदवगताव् उपशान्तिम् एति चेतः । अवगतविततैकतत्स्वरूपो भव भवमुक्त सदोदितश् चिराय
एतानि तानि प्रोक्तानि त्वया बीजानि मानद । कतमस्य प्रयोगेण शीघ्रं तत् प्राप्यते पदम्
एतेषां दुःखबीजानां प्रोक्तं यद् यन् मयोत्तरम् । तस्य तस्य प्रयोगेण शीघ्रम् आसाद्यते पदम्
सत्तासामान्यकोटिस्थे झगित्य् एव पदे यदि । पौरुषेण प्रयत्नेन बलात् सन्त्यज्य वासनाः
स्थितिं बध्नासि तत्त्वज्ञ क्षणम् अप्य् अक्षयात्मिकाम् । क्षणे ऽस्मिन्न् एव तत् साधु पदम् आसादयस्य् अलम्
सत्तासामान्यरूपे वा करोषि स्थितिम् अङ्ग चेत् । तत् किञ्चिदधिकेनेह यत्नेनाप्नोषि तत् पदम्
संवित्तत्त्वे कृतज्ञानो यदि तिष्ठसि वानघ । तद् यत्नेनाधिकेनोच्चैर् आसादयसि तत् पदम्
संवेद्ये केवले ध्यानं न सम्भवति राघव । सर्वत्र सम्भवाद् अस्यास् संवित्तेर् एव सर्वदा
यच् चिन्तयसि यद् यासि यत् तिष्ठसि करोषि वा । तत्र तत्र स्थिता संवित् संविद् एव तद् एव वा
वासनासम्परित्यागे यदि यत्नं करोषि वा । तत् ते शिथिलतां यान्ति सर्वाधिव्याधयः क्षणात्
पूर्वेभ्यस् तु प्रयत्नेभ्यो विषमो ऽयं हि संस्मृतः । दुस्साधो वासनात्यागस् सुमेरून्मूलनाद् अपि
यावद् विलीनं न मनो न तावद् वासनाक्षयः
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुस्साधानि स्थितान्य् अतः
तस्माद् राघव यत्नेन पौरुषेण विवेकिना । भोगेच्छां दूरतस् त्यक्त्वा त्रयम् एतत् समाश्रयेत्
सर्व एते समं यावन् न स्वभ्यस्ता मुहुर् मुहुः । तावन् न पदसम्प्राप्तिर् भवत्य् अपि समाशतैः
वासनाक्षयविज्ञानमनोनाशा महामतेः । समकालं चिराभ्यस्ता भवन्ति फलदा मुनेः
एकैकशो निषेव्यन्ते यद्य् एते चिरम् अप्य् अलम् । तन् न सिद्धिं प्रयच्छन्ति मन्त्राश् शकलिता इव
चिरकालोपचरिता अप्य् एते सुधियो ऽपि च । एकशः परम् अभ्येतुं न शक्तास् सैनिका इव
समम् उद्योगम् आनीतास् सन्त एते हि धीमता । सम्सारारिं निकृन्तन्ति मूलाद् अपि भटा इव
वासनाक्षयविज्ञानमनोनाशाः प्रयत्नतः । समं सेव्यास् तव चिरं तेन तात न तप्यसे
त्रिभिर् एभिश् चिराभ्यस्तैर् हृदयग्रन्थयो दृढाः । निश्शेषम् एव त्रुट्यन्ति बिसच्छेदाद् गुणा इव
जन्मान्तरशताभ्यस्ता राम संसारसंस्थितिः । सा चिराभ्यासयोगेन विना न क्षीयते क्वचित्
गच्छञ् शृण्वन् स्पृशञ् जिघ्रंस् तिष्ठञ् जाग्रत् स्वपन् सदा । श्रेयसे परमायास्य त्रयस्याभ्यासवान् भव
वासनासम्परित्यागसमं प्राणनिरोधनं । विदुस् तत्त्वविदस् तस्मात् तद् अप्य् एवं समाहरेत्
वासनासम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् । प्राणस्पन्दनिरोधाच् च यथेच्छसि तथा कुरु
प्राणायामदृढाभ्यासैर् युक्त्या च गुरुदत्तया । आसनासनयोगेन प्राणस्पन्दो निरुध्यते
सम्यग्ज्ञानविलासेन जगद्वस्तुष्व् अनास्थया । यथाभूतार्थदर्शित्वाद् वासना न प्रवर्तते
अदाव् अन्ते च वस्तूनाम् अविसंवादि यत् स्थिरम् । रूपं तद्दर्शनं ज्ञानं क्षीयते तेन वासना
निस्सङ्गं व्यवहारित्वाद् भवभावनवर्जनात् । शरीरे नाशदर्शित्वाद् वासना न प्रवर्तते