विभागं तु परित्यज्य सत्तैकात्मतया ततम् । सामान्येनैव सत्ताया रूपम् एकम् उदाहृतम्
विशेषं सम्परित्यज्य सन्मात्रं यद् अलेपकम् । एकरूपं महारूपं सत्तायास् तत् परं विदुः
रूपं नानाकृतित्वेन सत्ताया न कदाचन । असंवेद्यं सम्भवति तस्माद् एतद् अवस्तुकम्
एकरूपं तु यद् रूपं सत्ताया विमलात्मकम् । न कदाचन तद् याति नाशं नापि च विस्मृतिम्
कालसत्ता कलासत्ता वस्तुसत्तेयम् इत्य् अपि । विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव
कालसत्ता खसत्ता च प्रोन्मुक्तकलना सती । यद्य् अप्य् उत्तमसद्रूपा तथाप्य् एषा न वास्तवी
विभागकलना यत्र विभिन्नमतदायिनी । नानाताकारणं दृष्टा तत् कथं पावनं भवेत्
सत्तासामान्यम् एवैकं भावयन् केवलं वपुः । परिपूर्णः परानन्दी तिष्ठाभरितदिग्भरः
सत्तासामान्यमात्रस्य या कोटिः कोविदेश्वर । सैवास्य बीजतां याता तत एष प्रवर्तते
सत्तासामान्यपर्यन्तं यत् तत् कलनयोज्झितम् । पदम् आद्यम् अनाद्यन्तं तस्य बीजं न विद्यते
संविल् लयं याति तत्र निर्विकारं च तिष्ठति । भूयो नावर्तते दुःखे तत्र लब्धवती पदम्
तद् धेतुस् सर्वहेतूनां तस्य हेतुर् न विद्यते । स सारस् सर्वसाराणां तस्मात् सारो न विद्यते
तस्मिंश् चिद्दर्पणे स्फारे समग्रा वस्तुदृष्टयः । इमास् ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः
सर्वे भावा इमे तत्र स्वदन्ते स्वादधारिणि । षड्रसा इव जिह्वायां प्रकटत्वं प्रयान्ति च
तत् खाद् अच्छतरस्यापि चिदाकाशस्य वै पदम् । सर्वेषां स्वादजातानाम् अलम् आस्वादनं च तत्
जायते वर्तते चैव वर्धते दृश्यते तथा । सन्तिष्ठते विगलति तत्राङ्ग जगतां गणः
तत् तद् गुरु गरिष्ठानां तत् तल् लघु लघीयसाम् । तत् तत् स्थूलं स्थविष्ठानाम् अणीयस् तद् अणीयसाम्
दविष्ठानां दविष्ठं तद् अन्तिकानां तद् अन्तिकम् । कनिष्ठानां कनिष्ठं तज् ज्येष्ठं तज् ज्यायसाम् अपि
तेजसाम् अपि तत् तेजस् तमसाम् अपि तत् तमः । वस्तूनाम् अपि तद् वस्तु दृशाम् अप्य् अङ्ग दृक् परा
तत् तत् किञ्चिन् नकिञ्चिच् च तत् तद् अस्ति च नास्ति च । तत् तद् दृश्यं अदृश्यं च तत् तद् अस्मि न चास्मि च
राम सर्वप्रयत्नेन तस्मिन् परमपावने । पदे स्थितिम् उपायासि यथा कुरु तथानघ
तद् अमलम् अजरं तद् आत्मतत्त्वं तदवगताव् उपशान्तिम् एति चेतः । अवगतविततैकतत्स्वरूपो भव भवमुक्त सदोदितश् चिराय
एतानि तानि प्रोक्तानि त्वया बीजानि मानद । कतमस्य प्रयोगेण शीघ्रं तत् प्राप्यते पदम्
एतेषां दुःखबीजानां प्रोक्तं यद् यन् मयोत्तरम् । तस्य तस्य प्रयोगेण शीघ्रम् आसाद्यते पदम्
सत्तासामान्यकोटिस्थे झगित्य् एव पदे यदि । पौरुषेण प्रयत्नेन बलात् सन्त्यज्य वासनाः
स्थितिं बध्नासि तत्त्वज्ञ क्षणम् अप्य् अक्षयात्मिकाम् । क्षणे ऽस्मिन्न् एव तत् साधु पदम् आसादयस्य् अलम्
सत्तासामान्यरूपे वा करोषि स्थितिम् अङ्ग चेत् । तत् किञ्चिदधिकेनेह यत्नेनाप्नोषि तत् पदम्
संवित्तत्त्वे कृतज्ञानो यदि तिष्ठसि वानघ । तद् यत्नेनाधिकेनोच्चैर् आसादयसि तत् पदम्
संवेद्ये केवले ध्यानं न सम्भवति राघव । सर्वत्र सम्भवाद् अस्यास् संवित्तेर् एव सर्वदा
यच् चिन्तयसि यद् यासि यत् तिष्ठसि करोषि वा । तत्र तत्र स्थिता संवित् संविद् एव तद् एव वा