संवेद्येन हृदाकाशो मनाग् अपि न लिप्यते । यस्यासाव् अजडो ऽसंविज् जीवन्मुक्तश् च कथ्यते
यदा न भाव्यते किञ्चिन् निर्वासनतयात्मनि । बालमूकादिविज्ञानम् इव च स्थीयते स्थिरम्
तदा जाड्यविनिर्मुक्तम् असंवेदनम् आततम् । आश्रितं भवति प्राज्ञ यस्माद् भूयो न लिप्यते
समस्तवासनात्यागान् निर्विकल्पसमाधितः । नीलत्वम् इव खात् स्फार आनन्दस् सम्प्रवर्तते
योगिनस् तत्र लीनस्य निस्संवेदनसंविदः । तन्मयत्वाद् अनाद्यन्तं तद् अप्य् अन्तर् विलीयते
गच्छंस् तिष्ठन् स्पृशञ् जिघ्रन्न् अपि तेन स उच्यते । अजडो गलितानन्दस् त्यक्तसंवेदनस् सुखी
एतां दृष्टिम् अवष्टभ्य कष्टया नष्टचेष्टया । तर दुःखाम्बुधेः पारम् अपारगुणसागरः
यथा बीजाद् बृहद्वृक्षो व्योम व्याप्नोति कालतः । तथैवेदं स्वसङ्कल्पात् संवेद्यं संविदुत्थितम्
यदा सङ्कल्प्य सङ्कल्पं संवित् संविन्दते वपुः । तदास्य जन्मजालस्य सैव गच्छति बीजताम्
जनयित्वात्मनात्मानं मोहयित्वा पुनः पुनः । स्वयं मोक्षं नयत्य् अन्ते संवित् सर्वत्र राघव
यद् एव भावयत्य् एषा तद् एव भवति क्षणात् । नटवद् भूमिकां त्यक्त्वा स्वम् आयाति चिराद् वपुः
देवो नागो ऽसुरो यक्षो रक्षः पुङ्किन्नरो गजः । आत्मैवास्या विलासिन्या जगन्नट्याः प्रनृत्यति
बद्ध्वात्मानं रुदित्वा च कोशकारः क्रिमिर् यथा । चिरात् केवलताम् एति स्वयं संवित् स्वभावतः
जगज्जलधिजालानां संविज् जलम् अलं तथा । यथैवापूर्य दिक्चक्रं स्फुरत्य् अद्र्यादितां गता
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । इत्य् अस्या वीचयः प्रोक्तास् संवित्सलिलसन्ततेः
संविन्मात्रं जगत् सर्वं द्वितीया नास्ति कल्पना । इत्य् एव सम्यग्ज्ञानेन संविद् गच्छति नान्यताम्
यदा न विन्दते किञ्चित् स्पन्दते न न चोपति । स्वात्मन्य् एव स्थितिं याति संविन् नालिप्यते तदा
अथास्यास् संविदो राम सन्मात्रं बीजम् उच्यते । सत्त्वमात्राद् उदेत्य् एषा प्राकाश्यम् इव तेजसः
द्वे रूपे तत्र सत्ताया एकं नानाकृति स्थितम् । द्वितीयम् एकरूपं तु विभागो ऽयं तयोश् शृणु
घटता पटता तत्ता त्वत्ता मत्तेति कथ्यते । सत्तारूपं विभागेन यत् तु नानाकृति स्थितम्
विभागं तु परित्यज्य सत्तैकात्मतया ततम् । सामान्येनैव सत्ताया रूपम् एकम् उदाहृतम्
विशेषं सम्परित्यज्य सन्मात्रं यद् अलेपकम् । एकरूपं महारूपं सत्तायास् तत् परं विदुः
रूपं नानाकृतित्वेन सत्ताया न कदाचन । असंवेद्यं सम्भवति तस्माद् एतद् अवस्तुकम्
एकरूपं तु यद् रूपं सत्ताया विमलात्मकम् । न कदाचन तद् याति नाशं नापि च विस्मृतिम्
कालसत्ता कलासत्ता वस्तुसत्तेयम् इत्य् अपि । विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव
कालसत्ता खसत्ता च प्रोन्मुक्तकलना सती । यद्य् अप्य् उत्तमसद्रूपा तथाप्य् एषा न वास्तवी
विभागकलना यत्र विभिन्नमतदायिनी । नानाताकारणं दृष्टा तत् कथं पावनं भवेत्
सत्तासामान्यम् एवैकं भावयन् केवलं वपुः । परिपूर्णः परानन्दी तिष्ठाभरितदिग्भरः
सत्तासामान्यमात्रस्य या कोटिः कोविदेश्वर । सैवास्य बीजतां याता तत एष प्रवर्तते
सत्तासामान्यपर्यन्तं यत् तत् कलनयोज्झितम् । पदम् आद्यम् अनाद्यन्तं तस्य बीजं न विद्यते