पाण्डुरीकृतसर्वाशं स्थगिताखिलदर्शनम् । विलोलजलदाकारम् अज्ञानावकरोत्थितम्
तृष्णातृणलवप्राप्तं स्तम्भाकृतिशरीरकम् । स्फुरत्तनुतनुक्षुब्धं लुब्धम् उत्प्लवनं प्रति
अन्तस्स्थितमहालोकम् अपश्यत् प्रविलीयते । पवनस्पन्दरोधाच् च राम चित्तरजः क्षणात्
वासनाप्राणपवनस्पन्दयोर् अनयोस् तयोः । संवेद्यं बीजम् इत्य् उक्तं स्फुरतस् तौ यतस् ततः
हृदि संवेद्यगर्धेन प्राणस्पन्दो ऽथ वासना । उदेति तस्मात् संवेद्यं कथितं बीजम् एतयोः
संवेद्यसम्परित्यागात् प्राणस्पन्दनवासने । समूलं नश्यतः क्षिप्रं मूलच्छेदाद् इव द्रुमौ
संविदं विद्धि संवेद्यबीजं वीर तया विना । न सम्भवति संवेद्यं तैलहीनस् तिलो यथा
न बहिर् नान्तरे किञ्चित् संवेद्यं विद्यते पृथक् । संवित् स्फुरन्ती सङ्कल्प्य संवेद्यं स्फुरति स्वतः
स्वप्ने यथात्ममरणं तथा देशान्तरस्थितिः । स्वचमत्कारयोगेन संवेद्यं संविदस् तथा
संवेदनं स्वसङ्कल्पात् संविदो यत् प्रवर्तते । जगज्जालकतां याति तद् इदं रघुनन्दन
यथा बालस्य वेतालस् स्वसङ्कल्पोद्भवो भवेत् । पुरुषत्वं यथा स्थाणोस् संवेद्यं संविदस् तथा
एतन् मिथ्या विदुर् ज्ञानं सम्यग्ज्ञानाद् विलीयते । रज्ज्वाम् इव भुजङ्गत्वं द्वीन्दुत्वं स्वीक्षिताद् इव
शुद्धैव संवित् त्रिजगत् संवेद्यं नान्यद् अस्त्य् अलम् । इत्य् अन्तर् निश्चयो रूढस् सम्यग्ज्ञानं विदुर् बुधाः
पूर्वं दृष्टम् अदृष्टं वा यद् अस्याः प्रतिभासते । संविदस् तत् प्रयत्नेन मार्जनीयं विजानता
तदमार्जनमात्रं हि महासंसारतां गतम् । तत्प्रमार्जनमात्रं तु मोक्ष इत्य् अभिधीयते
संवेदनम् अनन्ताय दुःखाय जननात्मने । असंवित्तिर् अजाड्यस्था सुखायाजननात्मने
अजडो गलितानन्दस् त्यक्तसंवेदनो भव । असंवेद्यः प्रबुद्धात्मा यस् त्वं स त्वं रघूद्वह
अजडश् चाप्य् असंवित्तिः कीदृशो भवति प्रभो । असंवित्तौ च जाड्यं तत् कथं वा विनिवार्यते
यस् सर्वत्रानवस्थास्थो विश्रान्तास्थो न कुत्रचित् । जीवो न विन्दते किञ्चिद् असंविद् अजडो हि सः
संविद्वस्तुदशालम्बस् स यस्येह न विद्यते । सो ऽसंविद् अजडः प्रोक्तः कुर्वन् कार्यशतान्य् अपि
संवेद्येन हृदाकाशो मनाग् अपि न लिप्यते । यस्यासाव् अजडो ऽसंविज् जीवन्मुक्तश् च कथ्यते
यदा न भाव्यते किञ्चिन् निर्वासनतयात्मनि । बालमूकादिविज्ञानम् इव च स्थीयते स्थिरम्
तदा जाड्यविनिर्मुक्तम् असंवेदनम् आततम् । आश्रितं भवति प्राज्ञ यस्माद् भूयो न लिप्यते
समस्तवासनात्यागान् निर्विकल्पसमाधितः । नीलत्वम् इव खात् स्फार आनन्दस् सम्प्रवर्तते
योगिनस् तत्र लीनस्य निस्संवेदनसंविदः । तन्मयत्वाद् अनाद्यन्तं तद् अप्य् अन्तर् विलीयते
गच्छंस् तिष्ठन् स्पृशञ् जिघ्रन्न् अपि तेन स उच्यते । अजडो गलितानन्दस् त्यक्तसंवेदनस् सुखी
एतां दृष्टिम् अवष्टभ्य कष्टया नष्टचेष्टया । तर दुःखाम्बुधेः पारम् अपारगुणसागरः
यथा बीजाद् बृहद्वृक्षो व्योम व्याप्नोति कालतः । तथैवेदं स्वसङ्कल्पात् संवेद्यं संविदुत्थितम्
यदा सङ्कल्प्य सङ्कल्पं संवित् संविन्दते वपुः । तदास्य जन्मजालस्य सैव गच्छति बीजताम्
जनयित्वात्मनात्मानं मोहयित्वा पुनः पुनः । स्वयं मोक्षं नयत्य् अन्ते संवित् सर्वत्र राघव