भावितं तीव्रसंवेगाद् आत्मना यत् तद् एव सः । भवत्य् आशु महाबाहो विगतेतरसंस्मृतिः
तादृग्रूपो हि पुरुषो वासनाविवशीकृतः । यत् पश्यति तद् एतत् तत् सद्वस्त्व् इति विमुह्यति
वासनावेशवैवश्यात् स्वरूपं प्रजहाति तम् । भ्रमं पश्यति दुर्दृष्टिस् सर्वं मदवशाद् इव
असम्यग्ज्ञानवान् एव भवत्य् आधिपरिप्लुतः । अन्तस्स्थया वासनया विषूच्येव वशीकृतः
असम्यग्दर्शनं यत् स्याद् यद् अनात्मात्मभावनम् । यद् अवस्तुनि वस्तुत्वं तच् चित्तं विद्धि राघव
दृढाभ्यासपदार्थैकभावनाद् अतिचञ्चलम् । चित्तं सञ्जायते जन्मजरामरणकारणम्
यदा न वास्यते किञ्चिद् धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते
अवासनत्वात् सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमोपशमप्रदा
यदा किञ्चिन् न संवित्तौ स्फुरत्य् अभ्रम् इवाम्बरे । तदा पद्म इवाकाशे चित्तम् अन्तर् न जायते
यदा न भाव्यते भावः क्वचिज् जगति वस्तुनि । तदा हृदम्बरे शून्ये चित्तरक्षो न जायते
एतावन्मात्रकं मन्ये रूपं चित्तस्य राघव । यद् भावनं वस्तुनो ऽन्ता रागेण च रसेन च
न काञ्चित् कलनायोग्यां दृशं भावयतस् स्वतः । आकाशकोशस्वच्छस्य कुतश् चित्तोदयो भवेत्
यद् अभावनम् आस्थाया यद् अभावस्य भावनम् । यद् यथावस्तुदर्शित्वं तद् अचित्तत्वम् उच्यते
सर्वम् अन्तः परित्यज्य शीतलाशयवर्ति यत् । वृत्तिस्थम् अपि तच् चित्तम् असद्रूपम् उदाहृतम्
वासनायां रसादानाद् रागो यस्य न विद्यते । तस्य चित्तम् अचित्तत्वं गतं सत्त्वं तद् उच्यते
न वासना घना यस्य पुनर्जननकारिणी । जीवन्मुक्तस् स सत्त्वस्थश् चक्रभ्रमवद् आस्थितः
भृष्टबीजोपमा येषां पुनर्जननवर्जिता । वासना रसनिर्हीना जीवन्मुक्ता हि ते स्मृताः
सत्त्वरूपपरिप्राप्तचित्तास् ते ज्ञानपारगाः । अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः
द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने । एकस्मिंश् च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः
मिथः कारणम् एते हि बीजे जन्मनि चेतसः । जलाङ्गीकरणे राम जलाशयघनाव् इव
बीजाङ्कुरवद् एते हि स्थिते च तिलतैलवत् । अविनाभाविनी नित्यं कालापेक्षक्रमे तथा
सार्धम् उत्पादयेते तु चित्तकं संविदात्मकम् । यथा घ्राणेन्द्रियानन्दम् आमोदपवनाव् उभौ
चित्तस्योत्पादके सार्धं तथैते वा समे तदा । आमोदपुष्पवत् तैलतिलवच् च व्यवस्थिते
वासनावशतः प्राणस्पन्दस् तेन च वासना । जायते चित्तबीजस्य तेन बीजाङ्कुरक्रमः
वासनोत्प्लूयमानत्वात् संवित् प्रक्षोभकर्मणा । प्राणस्पन्दं बोधयति तेन चित्तं प्रजायते
प्राणस् स्पन्दनधर्मित्वात् स्पन्दते स्पृष्टहृद्गुहः । संविदं बोधयंस् तेन चित्तबालः प्रजायते
एवं हि वासनाप्राणस्पन्दौ चित्तस्य कारणम् । तयोर् एकक्षये नाशो द्वयोश् चित्तस्य चानघ
सुखदुःखमहास्कन्धं शरीरकमहाफलम् । कार्यपल्लविताकारं वृत्तिव्रततिवेष्टितम्
तृष्णाकृष्णाहिवलितं रागरोगबकालयम् । अज्ञानमूलं सुदृढं लीनेन्द्रियविहङ्गमम्
वासनाक्षयनामैतं चित्तवृक्षं क्षणेन हि । प्रपातयति वातौघः कालपक्वं फलं यथा