संशान्तदुःखम् अजडात्मकम् एकसुप्तम् आनन्दमन्थरम् अपेतरजस्तमोऽर्कम् । आकाशकोशतनवो ऽतनवो महान्तस् तस्मिन् पदे गलितचित्तलवा वसन्ति
परमाकाशकोशाद्रिरूढं लोकान्तरद्रुमम् । तारकापुष्पशबलं देवासुरविहङ्गमम्
विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् । सर्वर्तुरम्यं चन्द्रार्कगणरम्यं कचत्तटम्
सप्ताब्धिवापीवलितं सरिच्छतनिरन्तरम् । चतुर्दशविधानन्तभूतजातोपजीवितम्
जगत्काननम् आक्रम्य स्थितायाः कृतजालकम् । ब्रह्मन् संसृतिमृद्वीकालताया वितताकृतेः
जरामरणपर्यायदुःखदुःखफलावलेः । प्ररूढमूलमालाया मोहसेकजलाञ्जलेः
किं बीजम् अथ बीजस्य तस्य किं बीजम् उच्यते । अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत्
सर्वम् एतत् समासेन पुनर् बोधाभिवृद्धये । सिद्धये ज्ञानसारस्य वद मे वदतां वर
अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् । संसृतिव्रततेर् बीजं शरीरं विद्धि राघव
शाखाप्रतानगहना फलपल्लवलासिनी । तेनेयं भवति स्फीता शरदीव वसुन्धरा
भावाभावदशाकोशं दुःखरत्नसमुद्गकम् । बीजम् अस्य शरीरस्य चित्तम् आशावशानुगम्
चित्ताद् इदम् उदेत्य् उच्चैस् सच् चासच् चाङ्गजालकम् । तथा चैतत् स्वयं स्वप्नसम्भ्रमेष्व् अनुभूयते
यथा गन्धर्वसङ्कल्पात् पुरम् एवं हि चेतसः । सवातायनम् आकारभासुरं जायते वपुः
यद् इदं किञ्चिद् आभोगि जागतं दृश्यतां गतम् । रूपं तच् चेतसस् स्फारं घटादित्वं मृदो यथा
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना
यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः । तदा संवेदनमयं चित्तम् आशु प्रजायते
यदा न स्पन्दते प्राणस् सिरासरणिकोटरे । असंवित्तिवशात् तेन चित्तम् अन्तर् न जायते
प्राणस्पन्दनम् एवेदं चित्तद्वारेण दृश्यते । जगत्ताम् आगतं व्योम्नि नीलत्वादीव दृग्दृशा
प्राणप्रस्पन्दनं पुंस्ता तच्छान्तिश् शान्तिर् उच्यते । प्राणप्रस्पन्दनात् संविद् वाति वीटेव चोदिता
संवित् स्फुरति देहेषु प्राणस्पन्दप्रबोधिता । चक्रावर्तैर् अङ्गनेषु वीटेव करताडिता
सती सर्वगता संवित् प्राणस्पन्देन बोध्यते । सूक्ष्मात् सूक्ष्मतराकारा गन्धलेखेव वायुना
संवित्संरोधनं श्रेयः परमं विद्धि राघव । कारणं समतायास् तत् क्षोभस् तत्र न विद्यते
संवित् समुदितैवाशु याति संवेद्यम् आदरात् । संवेदनाद् अनन्तानि ततो दुःखानि चेतसः
सुप्ता पुनर् अबोधाय संवित् सन्तिष्ठते यदा । लब्धं भवति लब्धव्यं तदा तद् अमलं पदम्
तस्मात् प्राणपरिस्पन्दैर् वासनाचोदनैस् तथा । नो चेत् संविदम् उच्छूनां करोषि तद् अजो भवान्
संविदुच्छूनता चित्तं विद्धि तेनेदम् आततम् । अनर्थजालम् आलूनविशीर्णजनजीवकम्
योगिनश् चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस् तथा ध्यानैः प्रयोगैर् युक्तिकल्पितैः
चित्तोपशान्तिफलदं परमं साम्यकारणम् । सुभगं संविदस् स्वास्थ्यं प्राणसंरोधनं विदुः
ज्ञानवद्भिः प्रकटिताम् अनुभूतां च राघव । चित्तस्योत्पत्तिम् अपरां वासनात इमां शृणु
दृढभावनया त्यक्तपूर्वापरविचारणम् । यद् आदानं पदार्थस्य वासना सा प्रकीर्तिता