मैत्री दयाथ मुदिता शशाङ्क इव दीप्तयः । जीवन्मुक्तमनोनाशे सर्वथा सर्वदा स्थिताः
जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमाचले । वसन्त इव मञ्जर्यस् स्फुरन्ति गुणसम्पदः
अरूपस् तु मनोनाशो यो मयोक्तो रघूद्वह । विदेहमुक्ताव् एवासौ विद्यते निष्कलात्मकः
समग्राग्र्यगुणाधारम् अपि सत्त्वं प्रलीयते । विदेहमुक्तौ विमले पदे परमपावने
विदेहमुक्तविषये तस्मिन् सत्त्वक्षयात्मके । चित्तनाशे विरूपाख्ये न किञ्चिद् अपि विद्यते
न गुणा नागुणास् तत्र न श्रीर् नाश्रीर् न लोलता । न चोदयो नास्तमयो न हर्षामर्षसंविदः
न तेजो न तमः किञ्चिन् न सन्ध्यादिनरात्रयः । न दिशो दश नाकाशं नार्थो नानर्थरूपता
न वासना न रचना नेहानीहे न रञ्जना । न सत्ता नापि वासत्ता न मध्यं वापि तत् पदम्
अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवार्मुचा । तत् समं शरदच्छेन विसन्ध्येनारजस्त्विषा
ये हि पारं गता बुद्धेस् संसाराडम्बरस्य च । तेषां तद् आस्पदं स्फारं पवनानाम् इवाम्बरम्
संशान्तदुःखम् अजडात्मकम् एकसुप्तम् आनन्दमन्थरम् अपेतरजस्तमोऽर्कम् । आकाशकोशतनवो ऽतनवो महान्तस् तस्मिन् पदे गलितचित्तलवा वसन्ति
परमाकाशकोशाद्रिरूढं लोकान्तरद्रुमम् । तारकापुष्पशबलं देवासुरविहङ्गमम्
विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् । सर्वर्तुरम्यं चन्द्रार्कगणरम्यं कचत्तटम्
सप्ताब्धिवापीवलितं सरिच्छतनिरन्तरम् । चतुर्दशविधानन्तभूतजातोपजीवितम्
जगत्काननम् आक्रम्य स्थितायाः कृतजालकम् । ब्रह्मन् संसृतिमृद्वीकालताया वितताकृतेः
जरामरणपर्यायदुःखदुःखफलावलेः । प्ररूढमूलमालाया मोहसेकजलाञ्जलेः
किं बीजम् अथ बीजस्य तस्य किं बीजम् उच्यते । अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत्
सर्वम् एतत् समासेन पुनर् बोधाभिवृद्धये । सिद्धये ज्ञानसारस्य वद मे वदतां वर
अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् । संसृतिव्रततेर् बीजं शरीरं विद्धि राघव
शाखाप्रतानगहना फलपल्लवलासिनी । तेनेयं भवति स्फीता शरदीव वसुन्धरा
भावाभावदशाकोशं दुःखरत्नसमुद्गकम् । बीजम् अस्य शरीरस्य चित्तम् आशावशानुगम्
चित्ताद् इदम् उदेत्य् उच्चैस् सच् चासच् चाङ्गजालकम् । तथा चैतत् स्वयं स्वप्नसम्भ्रमेष्व् अनुभूयते
यथा गन्धर्वसङ्कल्पात् पुरम् एवं हि चेतसः । सवातायनम् आकारभासुरं जायते वपुः
यद् इदं किञ्चिद् आभोगि जागतं दृश्यतां गतम् । रूपं तच् चेतसस् स्फारं घटादित्वं मृदो यथा
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना
यदा प्रस्पन्दते प्राणो नाडीसंस्पर्शनोद्यतः । तदा संवेदनमयं चित्तम् आशु प्रजायते
यदा न स्पन्दते प्राणस् सिरासरणिकोटरे । असंवित्तिवशात् तेन चित्तम् अन्तर् न जायते
प्राणस्पन्दनम् एवेदं चित्तद्वारेण दृश्यते । जगत्ताम् आगतं व्योम्नि नीलत्वादीव दृग्दृशा
प्राणप्रस्पन्दनं पुंस्ता तच्छान्तिश् शान्तिर् उच्यते । प्राणप्रस्पन्दनात् संविद् वाति वीटेव चोदिता
संवित् स्फुरति देहेषु प्राणस्पन्दप्रबोधिता । चक्रावर्तैर् अङ्गनेषु वीटेव करताडिता