नष्टं कस्य मनो ब्रह्मन् नष्टं वा कीदृशं भवेत् । कीदृशश् चास्य नाशस् स्यात् स्यात् सत्ता चास्य कीदृशी
चेतसः कथिता सत्ता मया रघुकुलोद्वह । अस्य नाशम् इदानीं त्वं शृणु प्रश्नविदां वर
सुखदुःखदशा धीरं साम्यान् न प्रोद्धरन्ति यम् । निश्श्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः
अयं सो ऽहम् अयं नाहम् इति चिन्ता नरोत्तमम् । खर्वीकरोति यं नान्तश् चित्तं तस्य मृतं विदुः
एष साधो मनोनाशो नष्टं चेदृङ् मनो भवेत् । चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते
मनस्तां मूढतां विद्धि यदा नश्यति सानघ । चित्तनाशाभिधानं हि तदा सत्त्वम् उदेत्य् अलम्
तस्य सत्त्वविलासस्य चित्तनाशस्य राघव । जीवन्मुक्तस्वभावस्य कैश्चिच् चित्त्वाभिधा कृता
मैत्र्यादिभिर् गुणैर् युक्तं भवत्य् उत्तमवासनम् । भूयोजन्मविनिर्मुक्तं जीवन्मुक्तं मनो ऽनघ
व्याप्तं वासनया यत् स्याद् भूयोजननमुक्तया । जीवन्मुक्तमनो ऽसक्तं राम तत् सत्त्वम् उच्यते
सम्प्रत्य् एवानुभूतत्वात् सत्त्वाप्त्या तत्त्वसंयुतः । सरूपो ऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते
मैत्री दयाथ मुदिता शशाङ्क इव दीप्तयः । जीवन्मुक्तमनोनाशे सर्वथा सर्वदा स्थिताः
जीवन्मुक्तमनोनाशे सत्त्वनाम्नि हिमाचले । वसन्त इव मञ्जर्यस् स्फुरन्ति गुणसम्पदः
अरूपस् तु मनोनाशो यो मयोक्तो रघूद्वह । विदेहमुक्ताव् एवासौ विद्यते निष्कलात्मकः
समग्राग्र्यगुणाधारम् अपि सत्त्वं प्रलीयते । विदेहमुक्तौ विमले पदे परमपावने
विदेहमुक्तविषये तस्मिन् सत्त्वक्षयात्मके । चित्तनाशे विरूपाख्ये न किञ्चिद् अपि विद्यते
न गुणा नागुणास् तत्र न श्रीर् नाश्रीर् न लोलता । न चोदयो नास्तमयो न हर्षामर्षसंविदः
न तेजो न तमः किञ्चिन् न सन्ध्यादिनरात्रयः । न दिशो दश नाकाशं नार्थो नानर्थरूपता
न वासना न रचना नेहानीहे न रञ्जना । न सत्ता नापि वासत्ता न मध्यं वापि तत् पदम्
अतमस्तेजसा व्योम्ना वितारेन्द्वर्कवार्मुचा । तत् समं शरदच्छेन विसन्ध्येनारजस्त्विषा
ये हि पारं गता बुद्धेस् संसाराडम्बरस्य च । तेषां तद् आस्पदं स्फारं पवनानाम् इवाम्बरम्
संशान्तदुःखम् अजडात्मकम् एकसुप्तम् आनन्दमन्थरम् अपेतरजस्तमोऽर्कम् । आकाशकोशतनवो ऽतनवो महान्तस् तस्मिन् पदे गलितचित्तलवा वसन्ति
परमाकाशकोशाद्रिरूढं लोकान्तरद्रुमम् । तारकापुष्पशबलं देवासुरविहङ्गमम्
विद्युन्मञ्जरितोपान्तनीलनीरदपल्लवम् । सर्वर्तुरम्यं चन्द्रार्कगणरम्यं कचत्तटम्
सप्ताब्धिवापीवलितं सरिच्छतनिरन्तरम् । चतुर्दशविधानन्तभूतजातोपजीवितम्
जगत्काननम् आक्रम्य स्थितायाः कृतजालकम् । ब्रह्मन् संसृतिमृद्वीकालताया वितताकृतेः
जरामरणपर्यायदुःखदुःखफलावलेः । प्ररूढमूलमालाया मोहसेकजलाञ्जलेः
किं बीजम् अथ बीजस्य तस्य किं बीजम् उच्यते । अथ तस्यापि किं बीजं बीजं तस्यापि किं भवेत्
सर्वम् एतत् समासेन पुनर् बोधाभिवृद्धये । सिद्धये ज्ञानसारस्य वद मे वदतां वर
अन्तर्लीनघनारम्भशुभाशुभमहाङ्कुरम् । संसृतिव्रततेर् बीजं शरीरं विद्धि राघव
शाखाप्रतानगहना फलपल्लवलासिनी । तेनेयं भवति स्फीता शरदीव वसुन्धरा