सबाह्याभ्यन्तरं शान्ते स्पन्दे तत्त्वविदां वर । धातवस् संस्थितिं देहे न त्यजन्ति कदाचन
संशान्ते देहगेहस्थे प्रस्पन्दे चित्तवातयोः । धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः
तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः । दारूणाम् इव धीराणां सर्वाङ्गानाम् अचोपताम्
इति वर्षसहस्राणि देहा जगति योगिनाम् । न क्लिद्यन्ति न भिद्यन्ते ऽभग्नवज्रलवा इव
तदैव वीतहव्यो ऽसौ शृणु किं नोपशान्तवान् । देहम् उत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयतया परः
ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयस् सर्वे ते स्वतन्त्रास् तनौ स्थिताः
एवं वापि च कर्माणि प्राक्तनान्य् ऐहिकानि वा । वासना वा न तेषां तच् चेतो नियमयन्त्य् अलम्
तेन तत्त्वविदां तात काकतालीयवन् मनः । यद् यद् भावयति क्षिप्रं तत् तद् आशु करोत्य् अलम्
काकतालीययोगेन वीतहव्यस्य संविदा । साम्प्रतं जीवितं बुद्धं तद् एवाशु स्थिरीकृतम्
यदा तु तस्य प्रतिभा विदेहोन्मुखतां गता । तदा विदेहमुक्तो ऽभूद् असौ स्वातन्त्र्यसंस्थितिः
विगतवासनम् आशु विपाशताम् उपगतं मन आत्मतयोदितम् । यद् अभिवाञ्छति तद् भवति क्षणात् सकलशक्तिमयो हि महेश्वरः
यदा ह्य् अस्तङ्गतप्रायं जातं चित्तं विचारतः । तदास्य वीतहव्यस्य जाता मैत्र्यादयो गुणाः
विवेकाभ्युदयाच् चित्तस्वरूपे ऽन्तर्हिते मुने । मैत्र्यादयो गुणा जाता इत्य् उक्तं किं त्वया प्रभो
ब्रह्मन्न् अस्तङ्गते चित्ते कस्य मैत्र्यादयो गुणाः । क्व वा परिस्फुरन्तीति वद मे वदतां वर
द्विविधश् चित्तनाशो ऽस्ति सरूपो ऽरूप एव च । जीवन्मुक्तस् सरूपस् स्याद् अरूपो ऽदेहमुक्तजः
चित्तसत्तेह दुःखाय चित्तनाशस् सुखाय च । चित्तसत्तां क्षयं नीत्वा चित्तनाशम् उपार्जयेत्
तामसैर् वासनाजालैर् व्याप्तं यज् जन्मकारणम् । विद्यमानं मनो विद्धि तद् दुःखायैव केवलम्
प्राकृतं गुणसम्भारं ममेति बहु मन्यते । यत् तु चित्तम् अतत्त्वज्ञं दुःखि तज् जीव उच्यते
विद्यमानं मनो यावत् तावद् दुःखम् अनन्तकम् । मनस्य् अस्तङ्गते जन्तोस् संसारो ऽन्तम् उपागतः
दुःखि मूढम् अवष्टब्धम् अस्मीत्य् एव विनिश्चयम् । विद्यमानं मनो विद्धि दुःखवृक्षनवाङ्कुरम्
नष्टं कस्य मनो ब्रह्मन् नष्टं वा कीदृशं भवेत् । कीदृशश् चास्य नाशस् स्यात् स्यात् सत्ता चास्य कीदृशी
चेतसः कथिता सत्ता मया रघुकुलोद्वह । अस्य नाशम् इदानीं त्वं शृणु प्रश्नविदां वर
सुखदुःखदशा धीरं साम्यान् न प्रोद्धरन्ति यम् । निश्श्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः
अयं सो ऽहम् अयं नाहम् इति चिन्ता नरोत्तमम् । खर्वीकरोति यं नान्तश् चित्तं तस्य मृतं विदुः
एष साधो मनोनाशो नष्टं चेदृङ् मनो भवेत् । चित्तनाशदशा चैषा जीवन्मुक्तस्य विद्यते
मनस्तां मूढतां विद्धि यदा नश्यति सानघ । चित्तनाशाभिधानं हि तदा सत्त्वम् उदेत्य् अलम्
तस्य सत्त्वविलासस्य चित्तनाशस्य राघव । जीवन्मुक्तस्वभावस्य कैश्चिच् चित्त्वाभिधा कृता
मैत्र्यादिभिर् गुणैर् युक्तं भवत्य् उत्तमवासनम् । भूयोजन्मविनिर्मुक्तं जीवन्मुक्तं मनो ऽनघ
व्याप्तं वासनया यत् स्याद् भूयोजननमुक्तया । जीवन्मुक्तमनो ऽसक्तं राम तत् सत्त्वम् उच्यते
सम्प्रत्य् एवानुभूतत्वात् सत्त्वाप्त्या तत्त्वसंयुतः । सरूपो ऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते