महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् । ईप्सितान्तं प्रयातानां नोपकुर्वन्ति सिद्धयः
अयं मे संशयो ब्रह्मन् वीतहव्यस्य सा तनुः । क्रव्यादैर् न कथं भुक्ता कथं क्लिन्ना न भूतले
तदैव वीतहव्यो ऽसौ कथं च न गतः प्रभो । विदेहमुक्ततां शीघ्रं यथावद् इति मे वद
या संविद् वलिता साधो वासनामलतन्तुना । सुखदुःखदशादाहभागिनी भवतीह सा
निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु या । तनुस् तिष्ठति तच्छेदे शक्ता नेह हि केचन
शृणु युक्त्या यया योगितनुश् छेदादिभिर् भ्रमैः । नाक्रम्यते महाबाहो बहुवर्षशतैर् अपि
चेतः पदार्थे पतति यस्मिन् यस्मिन् यदा यदा । तन्मयं तद् भवत्य् आशु तस्मिंस् तस्मिंस् तदा तदा
तथा दृष्टारि हि मनो विकारम् उपगच्छति । दृष्टमित्रं च हृद्यत्वं स्वयम् एवाभिपद्यते
रागद्वेषविहीने तु पथिके पादपे गिरौ । भवत्य् अरागविद्वेषं स्वयम् इत्य् अनुभूयते
मृष्टे लौल्यम् उपादत्ते दुर्भोज्ये याति नस्पृहाम् । वैरस्यं याति कटुनि स्वयम् इत्य् अनुभूयते
समसंविद्विलासाढ्ये यद् यदा योगिदेहके । हिंस्रं चेतः पतत्य् आशु समताम् एति तत् तदा
समं सद्भावमुक्तत्वाच् छेदादौ न प्रवर्तते । पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि
योगिदेहसमीपात् तु गत्वा प्राप्नोति हिंस्रताम् । यद् यद् भवति तत्राशु तथारूपं न संशयः
इति हिंस्रैर् मृगव्याघ्रसिंहकीटसरीसृपैः । न च्छिन्ना वीतहव्यस्य तनुर् भूतलशायिनी
सर्वत्र विद्यते संवित् काष्ठलोष्टोपलादिके । सत्तासामान्यरूपेण संस्थिता बालमूकवत्
पोप्लूयमाना तरला केवलं परिदृश्यते । तन्वी पुर्यष्टकेष्व् एव प्रतिबिम्बं जलेष्व् इव
तेन भूजलवाय्वग्निसंवित्त्या समरूपया । न विकारं तनुर् नीता वीतहव्यस्य राघव
अन्यच् च शृणु हे राम स्पन्दो नाशस्य कारणम् । विकारस्य च चित्तोत्थो वातजो वा जगत्स्थितौ
प्राणानां प्राणता स्पन्दात् तच्छान्तौ ते दृषत्समाः । यतस् स्थिता धारणया तेनानष्टास्य सा तनुः
सबाह्याभ्यन्तरं स्पन्दश् चेतसो वातजो ऽथ वा । न यस्य विद्यते तस्य दूरस्थौ विकृतिक्षयौ
सबाह्याभ्यन्तरं शान्ते स्पन्दे तत्त्वविदां वर । धातवस् संस्थितिं देहे न त्यजन्ति कदाचन
संशान्ते देहगेहस्थे प्रस्पन्दे चित्तवातयोः । धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः
तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः । दारूणाम् इव धीराणां सर्वाङ्गानाम् अचोपताम्
इति वर्षसहस्राणि देहा जगति योगिनाम् । न क्लिद्यन्ति न भिद्यन्ते ऽभग्नवज्रलवा इव
तदैव वीतहव्यो ऽसौ शृणु किं नोपशान्तवान् । देहम् उत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयतया परः
ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयस् सर्वे ते स्वतन्त्रास् तनौ स्थिताः
एवं वापि च कर्माणि प्राक्तनान्य् ऐहिकानि वा । वासना वा न तेषां तच् चेतो नियमयन्त्य् अलम्
तेन तत्त्वविदां तात काकतालीयवन् मनः । यद् यद् भावयति क्षिप्रं तत् तद् आशु करोत्य् अलम्
काकतालीययोगेन वीतहव्यस्य संविदा । साम्प्रतं जीवितं बुद्धं तद् एवाशु स्थिरीकृतम्
यदा तु तस्य प्रतिभा विदेहोन्मुखतां गता । तदा विदेहमुक्तो ऽभूद् असौ स्वातन्त्र्यसंस्थितिः