यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च । वमयन्ति च भुक्तानि मदनानि फलानि च
तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः । नियतं साधयन्त्य् आशु प्रयोगं युक्तियोगजाः
एतस्मात् समतीतस्य युक्त्या युक्तस्य राघव । आत्मज्ञानस्य नास्त्य् एव कर्तृता नाप्य् अकर्तृता
द्रव्यमन्त्रक्रियाकालयुक्तयस् साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन
यस्येच्छा विद्यते काचित् स सिद्धिं साधयत्य् अलम् । आत्मज्ञानस्य पूर्णत्वान् नेच्छा सम्भवति क्वचित्
सर्वेच्छाजालसंशान्ताव् आत्मलाभोदयो हि यः । तद्विरुद्धा कथं तस्माद् इच्छा सञ्जायते ऽनघ
या योदेति च यस्येच्छा स तया यतते तथा । यथा कालं तद् आप्नोति ज्ञो वाप्य् अज्ञतरो ऽपि वा
वीतहव्येन यतितं नाजातेच्छेन किञ्चन । जातेच्छेनाशु यतितं प्रोत्थितो ऽसौ यथावनेः
एवं कालक्रियाद्रव्यकर्मयुक्तिस्वभावजाः । यथेष्टम् एव सिध्यन्ति सिद्धयस् स्वाः क्रमार्जिताः
याः फलावलयो येन सम्प्राप्तास् सिद्धिनामिकाः । तास् तेनाधिगता राम निजात् प्रयतनद्रुमात्
महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् । ईप्सितान्तं प्रयातानां नोपकुर्वन्ति सिद्धयः
अयं मे संशयो ब्रह्मन् वीतहव्यस्य सा तनुः । क्रव्यादैर् न कथं भुक्ता कथं क्लिन्ना न भूतले
तदैव वीतहव्यो ऽसौ कथं च न गतः प्रभो । विदेहमुक्ततां शीघ्रं यथावद् इति मे वद
या संविद् वलिता साधो वासनामलतन्तुना । सुखदुःखदशादाहभागिनी भवतीह सा
निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु या । तनुस् तिष्ठति तच्छेदे शक्ता नेह हि केचन
शृणु युक्त्या यया योगितनुश् छेदादिभिर् भ्रमैः । नाक्रम्यते महाबाहो बहुवर्षशतैर् अपि
चेतः पदार्थे पतति यस्मिन् यस्मिन् यदा यदा । तन्मयं तद् भवत्य् आशु तस्मिंस् तस्मिंस् तदा तदा
तथा दृष्टारि हि मनो विकारम् उपगच्छति । दृष्टमित्रं च हृद्यत्वं स्वयम् एवाभिपद्यते
रागद्वेषविहीने तु पथिके पादपे गिरौ । भवत्य् अरागविद्वेषं स्वयम् इत्य् अनुभूयते
मृष्टे लौल्यम् उपादत्ते दुर्भोज्ये याति नस्पृहाम् । वैरस्यं याति कटुनि स्वयम् इत्य् अनुभूयते
समसंविद्विलासाढ्ये यद् यदा योगिदेहके । हिंस्रं चेतः पतत्य् आशु समताम् एति तत् तदा
समं सद्भावमुक्तत्वाच् छेदादौ न प्रवर्तते । पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि
योगिदेहसमीपात् तु गत्वा प्राप्नोति हिंस्रताम् । यद् यद् भवति तत्राशु तथारूपं न संशयः
इति हिंस्रैर् मृगव्याघ्रसिंहकीटसरीसृपैः । न च्छिन्ना वीतहव्यस्य तनुर् भूतलशायिनी
सर्वत्र विद्यते संवित् काष्ठलोष्टोपलादिके । सत्तासामान्यरूपेण संस्थिता बालमूकवत्
पोप्लूयमाना तरला केवलं परिदृश्यते । तन्वी पुर्यष्टकेष्व् एव प्रतिबिम्बं जलेष्व् इव
तेन भूजलवाय्वग्निसंवित्त्या समरूपया । न विकारं तनुर् नीता वीतहव्यस्य राघव
अन्यच् च शृणु हे राम स्पन्दो नाशस्य कारणम् । विकारस्य च चित्तोत्थो वातजो वा जगत्स्थितौ
प्राणानां प्राणता स्पन्दात् तच्छान्तौ ते दृषत्समाः । यतस् स्थिता धारणया तेनानष्टास्य सा तनुः
सबाह्याभ्यन्तरं स्पन्दश् चेतसो वातजो ऽथ वा । न यस्य विद्यते तस्य दूरस्थौ विकृतिक्षयौ