वीतहव्यात्मिका संवित् सङ्कल्पजगतीति सा । अनुभूतवती विश्वम् इदम् एव च तज् जगत्
वीतहव्यो मनोमात्रं मनो ऽहं त्वम् इमे ऽद्रयः । मनो जगद् इदं कृत्स्नम् अन्यतानन्यते ऽत्र के
अधिगतपरमार्थः क्षीणरागादिदोषस् सकलमलविकारोपाधिभङ्गाद् अतीतः । चिरम् अनुसृतम् अन्यैस् स्वं स्वभावं विवेकी पदम् अमलम् अनन्तं प्राप्तवाञ् शान्तशोकः
वीतहव्यवद् आत्मानं नीत्वा विदितवेद्यताम् । वीतरागभयद्वेषस् तिष्ठ राघव कर्मसु
त्रिंशद्वर्षसहस्राणि विजहार यथा मुनिः । वीतहव्यो वीतशोकस् तथा विहर राघव
अन्ये राजन्यमुनयो ज्ञातज्ञेया महाधियः । यथावसन् स्वराज्येषु तथावस महामते
सुखदुःखक्रमैर् आत्मा न कदाचन गृह्यते । सर्वगो ऽपि महाबाहो किं मुधा परिशोचसि
बहवो विदितात्मानो विहरन्तीह भूतले । न केचन वशं याता दुःखस्याङ्ग भवान् इव
स्वस्थो भव भवोदारस् समो भव सुखी भव । सर्वगस् त्वं त्वम् आत्मैव तव नास्ति पुनर्भवः
हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशः । न केचन वशं यान्ति मृगेन्द्राश् शाखिनाम् इव
अनेनैव प्रसङ्गेन संशयो ऽयं ममोदितः । शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय
जीवन्मुक्तशरीराणां कथम् आत्मविदां वर । शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः
आकाशगमनादीनि यान्य् एतानि रघूद्वह । कर्माणि ताः पदार्थानां सहजाः खलु शक्तयः
यद् विचित्रं क्रियाजालं दर्श्यते गोप्यते पुनः । राम वस्तुस्वभावो ऽसौ न तद् आत्मविदां मतम्
अनात्मविद् अमुक्तो ऽपि नभोविहरणादिकम् । द्रव्यकर्मक्रियाकालशक्त्याप्नोत्य् एव राघव
नात्मज्ञस्यैष विषय आत्मज्ञो ह्य् आत्मवान् स्वयम् । आत्मनात्मनि सन्तृप्तो नाविद्याम् अनुधावति
ये केचन जगद्भावास् तान् अविद्याकृतान् विदुः । कथं तेषु किलात्मज्ञस् त्यक्ताविद्यो निमज्जति
अविद्याम् अपि ये युक्त्या साधयन्ति सुखात्मिकाम् । ते ह्य् अविद्याकृता एव न त्व् आत्मज्ञास् तथाक्रमाः
तत्त्वज्ञो वाप्य् अतत्त्वज्ञो यः कालद्रव्यकर्मभिः । यथाक्रमं प्रयतते तस्येन्द्रत्वादि सिध्यति
आत्मज्ञस् त्व् इह सर्वस्माद् अतीतो विगतैषणः । आत्मन्य् एव हि सन्तुष्टो न करोति न चेहते
न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः । न प्रभावेण नो मानैर् नाशामरणजीवितैः
नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः । आकाशसदृशाकारस् तज्ज्ञ आत्मनि तिष्ठति
अशङ्कितोपयातेन दुःखेन च सुखेन च । तृप्यत्य् अपगतासङ्गो जीवेन मरणेन च
समुद्रसरिदापातक्रमसम्प्राप्तवस्तुना । समेन विषमेणापि तिष्ठत्य् आत्मानम् अर्चयन्
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः
यस् तु वा भावितात्मापि सिद्धिजालानि वाञ्छति । स सिद्धिसाधकैर् द्रव्यैस् तानि साधयति क्रमात्
सिध्यतीत्थम् इदं युक्त्यैवेत्य् अयं नियतेः क्रमः । त्र्यक्षादिभिस् सुरवरैर् व्यर्थीकर्तुम् न शक्यते
स्वभाव एष वस्तूनां स्वतस् सिद्धो हि नान्यतः । नियतिं न जहात्य् एव शशाङ्क इव शीतताम्
सर्वज्ञो ऽपि समर्थो ऽपि माधवो ऽपि हरो ऽपि वा । अन्यथा नियतिं कर्तुं न शक्तः कश्चिद् एव हि
द्रव्यकालक्रियामन्त्रप्रयोगानां स्वभावजाः । एतास् ताश् शक्तयो राम यद् व्योमगमनादिकम्