तस्य देहद्रुमान्तस्स्थं त्यक्त्वा हृन्नीडम् आययुः । प्रोड्डीय प्राणविहगा यन्त्रोन्मुक्ताश्मवन् नभः
भूतेष्व् एव प्रविष्टानि भूतानि सकलान्य् अलम् । मांसास्थियन्त्रं देहस् तु वनावनितले ऽवसत्
चिदर्णवं प्रविष्टा चिद् धातवो धातुषु स्थिताः । स्वे स्वरूपे स्थितं सर्वं मुनाव् उपशमं गते
एषा ते कथिता राम विचारशतशालिनी । विश्रान्तिर् वीतहव्यस्य प्रज्ञयैतां विवेचय
एवम्प्रकारया युक्त्या स्वविचारणयेद्धया । तत्त्वम् आलोक्य तत्सारम् आतिष्ठोत्थाय राघव
यद् एतद् अखिलं राम भवते वर्णितं मया । यद् इदं वर्णयाम्य् अन्यद् वर्णयिष्यामि यच् च वा
त्रिकालदर्शिना नित्यं चिरं च किल जीवता । विचारितं च दृष्टं च मया तद् अखिलं स्वयम्
तद् एताम् अमलां दृष्टिम् अवलम्ब्य महामते । ज्ञानम् आसादय परं ज्ञानान् मुक्तिर् हि लभ्यते
ज्ञानान् निर्दुःखतोदेति ज्ञानाद् अज्ञानसङ्क्षयः । ज्ञानाद् एव परा सिद्धिर् नान्यस्माद् राम वस्तुतः
ज्ञानेन सकलान् पाशान् विनिकृत्य समन्ततः । शातिताशेषचित्ताद्रिर् वीतहव्यो मुनीश्वरः
वीतहव्यात्मिका संवित् सङ्कल्पजगतीति सा । अनुभूतवती विश्वम् इदम् एव च तज् जगत्
वीतहव्यो मनोमात्रं मनो ऽहं त्वम् इमे ऽद्रयः । मनो जगद् इदं कृत्स्नम् अन्यतानन्यते ऽत्र के
अधिगतपरमार्थः क्षीणरागादिदोषस् सकलमलविकारोपाधिभङ्गाद् अतीतः । चिरम् अनुसृतम् अन्यैस् स्वं स्वभावं विवेकी पदम् अमलम् अनन्तं प्राप्तवाञ् शान्तशोकः
वीतहव्यवद् आत्मानं नीत्वा विदितवेद्यताम् । वीतरागभयद्वेषस् तिष्ठ राघव कर्मसु
त्रिंशद्वर्षसहस्राणि विजहार यथा मुनिः । वीतहव्यो वीतशोकस् तथा विहर राघव
अन्ये राजन्यमुनयो ज्ञातज्ञेया महाधियः । यथावसन् स्वराज्येषु तथावस महामते
सुखदुःखक्रमैर् आत्मा न कदाचन गृह्यते । सर्वगो ऽपि महाबाहो किं मुधा परिशोचसि
बहवो विदितात्मानो विहरन्तीह भूतले । न केचन वशं याता दुःखस्याङ्ग भवान् इव
स्वस्थो भव भवोदारस् समो भव सुखी भव । सर्वगस् त्वं त्वम् आत्मैव तव नास्ति पुनर्भवः
हर्षामर्षविकाराणां जीवन्मुक्ता भवादृशः । न केचन वशं यान्ति मृगेन्द्राश् शाखिनाम् इव
अनेनैव प्रसङ्गेन संशयो ऽयं ममोदितः । शरत्काल इवाम्भोदं तं मे त्वं तनुतां नय
जीवन्मुक्तशरीराणां कथम् आत्मविदां वर । शक्तयो नेह दृश्यन्ते आकाशगमनादिकाः
आकाशगमनादीनि यान्य् एतानि रघूद्वह । कर्माणि ताः पदार्थानां सहजाः खलु शक्तयः
यद् विचित्रं क्रियाजालं दर्श्यते गोप्यते पुनः । राम वस्तुस्वभावो ऽसौ न तद् आत्मविदां मतम्
अनात्मविद् अमुक्तो ऽपि नभोविहरणादिकम् । द्रव्यकर्मक्रियाकालशक्त्याप्नोत्य् एव राघव
नात्मज्ञस्यैष विषय आत्मज्ञो ह्य् आत्मवान् स्वयम् । आत्मनात्मनि सन्तृप्तो नाविद्याम् अनुधावति
ये केचन जगद्भावास् तान् अविद्याकृतान् विदुः । कथं तेषु किलात्मज्ञस् त्यक्ताविद्यो निमज्जति
अविद्याम् अपि ये युक्त्या साधयन्ति सुखात्मिकाम् । ते ह्य् अविद्याकृता एव न त्व् आत्मज्ञास् तथाक्रमाः
तत्त्वज्ञो वाप्य् अतत्त्वज्ञो यः कालद्रव्यकर्मभिः । यथाक्रमं प्रयतते तस्येन्द्रत्वादि सिध्यति
आत्मज्ञस् त्व् इह सर्वस्माद् अतीतो विगतैषणः । आत्मन्य् एव हि सन्तुष्टो न करोति न चेहते